This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
९७
 
कुहनागोपाय । मिथ्यागोपाय, मायागोपाय; गोपवे-
बा

षा
य ॥
 

 
गोपायते । यद्यप्यात्मानं योगमायया गोपयामास, अ-

स्मान् गोपायति ॥
 
;
 

 
कालिन्दीरसिकाय । रसिक: खलु नृत्येत् 1 यथा

भावुका रसिकान्तथा रसस्वरूपोऽयं परमरसिक: । कालि-

न्दीरसिकोऽयं यामुनः, तस्याः कृष्णाहिना दूषणं न मर्ष-

येत् । कालिन्द्यां व्रजयुवतिभिः सह जलक्रीडादेरय महिः

परिपन्थी । कालिन्दीरसिकत्वमहिमर्दने तदुपरि नर्तने च

हेतु: । 'नद्यस्तदाकर्ण्य मुकुन्दगीतमावर्तबुद्बुद मनोभव भग्नवे-

गाः । आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेर्गृह्णन्ति पादयुगलं कम-

लोपहारा: ॥' इति कालिन्द्याः कृष्णगानरसिकत्वम् । रसि-

कायां तस्यां नद्यां विहरणरसिकः कृष्णः । तस्यां नर्तनेन तां

सन्तोषयितुमिच्छति ॥
 

 
कालियफणिस्फारस्फटेत्यादि । 'यद्यच्छिरो न नमदु-
ब्र

ङ्ग
शतैकशीर्ष्णस्तत्तन्ममर्द खलदण्डरोऽप्ङ्घ्रिपातैः ।' इति

श्रीशुकानुभवः । समीचीनसन्मार्गनिर्माता खलु भगवान् ।

मार्गरचयितारः शर्करासश्चयान्निवेश्य तान्मईयेयुर्दण्डादिभिः ।