This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
९७
 
कुहनागोपाय । मिथ्यागोपाय, मायागोपाय; गोपवे-
बाय ॥
 
गोपायते । यद्यप्यात्मानं योगमायया गोपयामास, अ-
स्मान् गोपायति ॥
 
;
 
कालिन्दीरसिकाय । रसिक: खलु नृत्येत् 1 यथा
भावुका रसिकान्तथा रसस्वरूपोऽयं परमरसिक: । कालि-
न्दीरसिकोऽयं यामुनः तस्याः कृष्णाहिना दूषणं न मर्ष-
येत् । कालिन्द्यां व्रजयुवतिभिः सह जलक्रीडादेरय महिः
परिपन्थी । कालिन्दीरसिकत्वमहिमर्दने तदुपरि नर्तने च
हेतु: । 'नयस्तदाकर्ण्य मुकुन्दगीतमावर्तबुद्बुद मनोभव भग्नवे-
गाः । आलिङ्गनस्थगितमूर्मिभुजैर्मरारेर्गृह्णन्ति पादयुगलं कम-
लोपहारा: ॥' इति कालिन्द्याः कृष्णगानरसिकत्वम् । रसि-
कायां तस्यां नयां विहरणरसिकः कृष्णः । तस्यां नर्तनेन तां
सन्तोषयितुमिच्छति ॥
 
कालियफणिस्फारस्फटेत्यादि । 'यद्यच्छिरो न नमदु-
ब्रशतैकशीष्णस्तत्तन्ममर्द खलदण्डघरोऽप्रिपातैः ।' इति
श्रीशुकानुभवः । समीचीनसन्मार्गनिर्माता खलु भगवान् ।
मार्गरचयितारः शर्करासश्चयान्निवेश्य तान्मईयेयुर्दण्डादिभिः ।