This page has been fully proofread once and needs a second look.

९६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यशिरःसु नृत्येत् ? गरुडवाहस्य स्ववाह भूतगरुडच्छायामात्रेण

स नागो हन्येत । अस्मन्मनोमर्दनाय तदभ्यासं कर्तुमे

भगवान्कालियशिरांसि मर्दयन्ननर्तेत्युत्प्रेक्षितमाचार्यै: ! कालि-

यमर्दने महान् रस आचार्याणाम् । विचित्रं तन्नर्तनानुगुण-

वर्णनं दृश्यते यादवाभ्युदये ' लोलापतञ्च्चरणलीलाहतिक्षरि-

तहालाहले निजफणे नृत्यन्तमप्रतिघकृत्यं तमप्रार्तरतिभमत्यन्त-

चारुवपुषम् । देवादिभि: समय सेवादरत्वरितहेवाक घोषमुख-

रैर्दृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ॥'
 
J
 

 

 

 
नाथायैव नमः पदं भवतु नः । अयं मम नाथो

रङ्गनाथ: कालियशिरोनृत्तरङ्गे नृत्यति । नामैकदेशे नाम-

ग्रहणम् । यदुनाथ: कृष्णो मम नाथः । तस्मिन् गरीयसी

भक्ति: सूच्यते एवकारेण । यथा कालियं विनयते तथा

मन्मनोऽपि संमर्दनेन विनीय तत्र नृत्यात् । तदनमने मर्धेत
द्येत
शिरः ॥
 

 
चित्रैश्चरित्रक्रमैरित्यादि । सर्वाश्चर्यमयो देवः किमस्य

नाश्चर्यम् । अमुमेब नारद आश्चर्यत्वेन निर्दधारेति हरिवंशे

श्चर्योपाख्याने । स्वस्मिन्नाश्चर्यपदविश्रान्तितिं प्रतिषेद्धुमसमर्थः

' अहमाश्चर्योऽस्मि' इति नारखं प्रत्यूचे नाथः ॥