This page has not been fully proofread.

९६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यशिरःसु नृत्येत् ? गरुडवाहस्य स्ववाह भूतगरुडच्छाय मात्रेण
स नागो हन्येत । अस्मन्मनोमर्दनाय तदभ्यासं कर्तुमेक
भगवान्कालियशिरांसि मर्दयन्ननर्तेत्युत्प्रेक्षितमाचार्यै: ! कालि-
यमर्दने महान् रस आचार्याणाम् । विचित्रं तन्नर्तनानुगुण-
वर्णनं दृश्यते यादवाभ्युदये ' लोलापतञ्चरणलीलाहतिक्षरि-
तहालाहले निजफणे नृत्यन्तमप्रतिघकृत्यं तमप्रार्तभमत्यन्त-
चारुवपुषम् । देवादिभि: समय सेवादरत्वरितहेवाक घोषमुख-
रैर्दृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ॥'
 
J
 

 

 
नाथायैव नमः पदं भवतु नः । अयं मम नाथो
रङ्गनाथ: कालियशिरोनृत्तरङ्गे नृत्यति । नामैकदेशे नाम-
ग्रहणम् । यदुनाथ: कृष्णो मम नाथः । तस्मिन् गरीयसी
भक्ति: सूच्यते एवकारेण । यथा कालियं विनयते तथा
मन्मनोऽपि संमर्दनेन विनीय तत्र नृत्यात् । तदनमने मर्धेत
शिरः ॥
 
चित्रैश्चरित्रक्रमैरित्यादि । सर्वाश्चर्यमयो देवः किमस्य
नाश्चर्यम् । अमुमेब नारद आश्चर्यत्वेन निर्दधारेति हरिवंशे
आर्योपाख्याने । स्वस्मिन्नाश्चर्यपदविश्रान्ति प्रतिषेद्धुमसमर्थः
' अहमाश्चर्योऽस्मि' इति नारखं प्रत्यूचे नाथः ॥