This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
९५
 
समुद्रराजो भगवन्तं न ददंग । आहूतो नागच्छन्मार्गदानाय ।
अयं नागो महापराधी, आर्द्रापिराधी च । अयमध्यरक्षि ।
विविक्रमपादाम्भोजेन त्रिजगदडितमभूदित्युक्तम् । तदनं
वयं न पश्यामः । अयं नागस्तत्पद्लाञ्छितोऽभूत् । भगव
त्पादचिन्हितोर्ध्वपुण्डूं शिरःसु दधार । न केवलं सः ।
तज्जातिभवाः कृष्णसर्पाः सर्वेऽपि तच्चिन्हवन्तोऽभूवन् । पुरा
परमदुष्टोऽपि नाग आदिदेवं शरणं समाश्रित्य निर्दोषो भा-
गवतोऽभूत् । एतद्वृत्तान्तेनान्यदपि तत्त्वं द्योत्यत इति वर्ण्यते
आचार्यैर्यादवाभ्युदये ' प्रणेमुषां प्राणभृतासुदीर्ण मनो विने-
व्यन्विषमाक्षवक्त्रम् । अकल्पयत्पन्नगमर्दनेन प्रायेण योग्यां
पतगेन्द्रवाहः ॥' अस्मन्मनः कृष्णाहेरपि दुष्टम्, कृष्णतरं
मलघनम् । विषमाक्षवक्त्रं मनः । प्रणमतां मनो मर्दनीय
भगवत्पादाम्भोजेन, विनेयं च । बहुपायं मनोमर्दनम्, दुर्घ
टतमं च । कष्टं तत्कार्यं सिषाधयिष्यंस्तदपेक्षया सुलभेन
कालियशिरोमर्दनेन मर्दनाभ्यासं करोतीव भगवान् । अस्म-
न्मनसो विनयनमेव वयमाकाङ्क्षामः । ' शतैकशीर्ष्णः' इत्ये-
कशतसंख्या कालियशिरसाम् । तत्पाठ आचार्यसंमतः
स्यात् । 'शतं चैका च हृदयस्य नाड्यः' इति मनसः
एकशतनाडीवत्त्वम् । पतगेन्द्रवाहनो भगवान् किमर्थं कालि.
 
-