This page has been fully proofread once and needs a second look.

९२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
न्' इति । साधूक्तं श्रीमद्ब्रह्मानन्दैरेतद्विषये 'मधुसूदन-

सरस्वत्याः पारं वेत्ति सरस्वती । सरस्वत्याः परं पारं

वोत्त वै मधुसूदनः ॥' इति । भूतार्थव्याहृतिरेषास्या
न्न
स्तुतिः । ब्रह्मत्व प्रदर्शिका विश्वरूपादिवृत्तान्ता बहवः सन्ति ।

किमर्थं तेषामन्यतमस्येहाग्रहणम् ? यदि कौमारकेऽपि ब्रह्मत्त्वं

निदर्येत; तत्तत्सम्यगुपपादयेत् । मिथ्यागोपस्य विश्वगोपत्वं

प्रदिदर्शयिष्यन्त्याचार्या: । गोपायेदित्यवतारान्तरेषु प्रार्थना ।

गोपवदाचरेदित्यर्थद्वयं भवेदत्र । तन्न हास्यते वैचित्र्यदिद-

र्
शयिषुभिराचार्यैः । ' चित्रैर्विचित्रक्रमैः' इत्यस्मिन्श्लोकेऽपि

वैचित्र्यसक्तताप्रकटनम् । तर्हि शैशवेऽपि माझेत्रे मुखं व्या-

दाय तन्त्र विश्वं प्रादर्शि । तदपि गोपालबालकृतम् । बाल्ये

प्रदर्शनादपि कौमारके तत्प्रदर्शनं निपुणतरं स्यात् । किमर्
-
थं
कालियमर्दनचरित्रोपादानमिति चेत्, सन्त्यत्र बहवो हेतवः ।

रङ्गे धामनि नटनं खलु प्रतिजज्ञे । वृत्ता अवतारा अ
त्र
समाप्यन्ते । भाव्यत्रतारः कश्चिवशिष्टः । वृत्तावतारपरि-

समाप्तौ नृत्तवर्णनसंभवे तदुपादानमत्र सुसङ्गतम् । अत्र

कालियफणा रङ्गं भवतीत्युच्यते । नवनीतनटनादेर्यद्यपि

नवनीतादपि स्वादुत्वमस्ति, न तेन बृहत्त्वमुपपाद्येत ।

कृष्णत्रयमरिंस्मिंमचरित्रे सङ्गमिति चारु दर्श्यते श्रीशुकेन