This page has been fully proofread once and needs a second look.

दशावतारस्तोत्र व्याख्या ।
 
९१
 
6
 

 
पठितः । अवतारान्तरेष्वपि कृष्णशब्दः प्रयुज्यते ' उद्धृतासि

वराहेण कृष्णेन शतबाहुना' इति । अस्यावतारस्य ब्रह्मत्वे

न कोऽपि संशयीत । 'नाहं प्रकाश: सर्वस्य योगमाया-

समावृत: ' इति श्लोकमवतारयन्तो मधुसूदनसरस्वत्य ऊचुः

'
ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव

रूपमाविर्भावितवति संप्रति च श्रीवत्सकौस्तुभवनमाला करी-

ठकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रव-

रधारिचतुर्भुजे श्रीमद्वैनतेयवाहने निखिलसुरलोकसंपादितरा.
-
जराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदि-

व्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके

निखिललोकनिस्ताराय भुवमवतीर्णे विरिञ्चिप्रपञ्चासंभ विनि-
विनि-
रतिशय सौन्दर्यसार सर्वस्वमूर्तीतौ बाललीलाविमोहितविधातरि

तरणिकिरणोज्ज्वलदिव्यपीताम्बरे निरुपमश्यामसुन्दरे कर-

दीकृत पारिजातार्थंपराजितपुरन्दरे बाणयुद्धविजितशशाङ्कशे-

खरे समस्तसुरासुरविजयिनरक प्रभृतिमहादैतेयप्रकरणपर्य-

न्तसर्वस्वहारिणि श्रीदामादिपरभरक्तमहावैभवकारिणि षोड

शसहस्रदिव्यरूपधारिणि अपरिमेयगुणगरिमाण महामहिमनि

नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनो-

ऽपि मनुष्यबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीपुषुराह भगवा
 
-