This page has not been fully proofread.

दशावतारस्तोत्र व्याख्या ।
 
९१
 
6
 

 
पठितः । अवतारान्तरेष्वपि कृष्णशब्दः प्रयुज्यते ' उद्धृतासि
वराहेण कृष्णेन शतबाहुना' इति । अस्यावतारस्य ब्रह्मत्वे
न कोऽपि संशयीत । 'नाहं प्रकाश: सर्वस्य योगमाया-
समावृत: ' इति श्लोकमवतारयन्तो मधुसूदनसरस्वत्य ऊचुः
ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव
रूपमाविर्भावितवति संप्रति च श्रीवत्सकौस्तुभवनमाला करी-
ठकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रव-
रधारिचतुर्भुजे श्रीमद्वैनतेयवाहने निखिलसुरलोकसंपादितरा.
जराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदि-
व्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके
निखिललोकनिस्ताराय भुवमवतीर्णे विरिञ्चिप्रपञ्चासंभ विनि-
रतिशय सौन्दर्यसार सर्वस्वमूर्ती बाललीलाविमोहितविधातरि
तरणिकिरणोज्ज्वलदिव्यपीताम्बरे निरुपमश्यामसुन्दरे कर-
दीकृत पारिजातार्थंपराजितपुरन्दरे बाणयुद्धविजितशशाङ्कशे-
खरे समस्तसुरासुरविजयिनरक प्रभृतिमहादैतेयप्रकरणपर्य-
न्तसर्वस्वहारिणि श्रीदामादिपरभरक्तमहावैभवकारिणि षोड
शसहस्रदिव्यरूपधारिणि अपरिमेयगुणगरिमाण महामहिमनि
नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनो-
ऽपि मनुष्यबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीपुराह भगवा