This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

 
शेषास्तावानधिकमधुरिमा शेषिणः । कृष्णस्य केलय: स्वादु-
त्वेन प्रसिद्धा इति 'ता:' इत्यनेन व्यज्यते । कृष्णशब्देन
निर्वृतिभूमिरिति निर्वचनलब्धार्थो विवक्ष्यते । स्वयं निर्वृति-
भूमि: कृष्णः । अखेलन् केलीरहितोऽपि सँ निर्वृतिभूमिः ।
तस्य कृष्णस्य केलयो जगते स्वदेरन् । ताः प्रसिद्धा: कृष्ण-
केलयोऽपि बलभद्रकेलिभिरपृथग्भूता अत्यन्तं रसवत्योऽभू-
वन् । अपायधुरंधरस्य साहसरसिकस्य कृष्णस्य क्षणविश्लेष-
मपि न सेहे ज्येष्ठ इति व्यज्यते श्रीमद्भट्टै: 'यद्विश्लेषलवो-
ऽपि कालियभुवे कोलाहलायाभवत्' इति ।
नाथायैव नमः पदं भवतु नचित्रैर्विचित्रक्रमै-
भ्रूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियफाणिस्फारस्फटावाटिका-
रङ्गोत्सङ्गविशङ्कचङ्गमधुरापर्यायचर्या यते ॥
 
So
 
निर्वृतिभूमिराचार्याणां कृष्णावतारः । तथा चाऊं तात्प
र्यचन्द्रिकायां नवमाध्याय चतुर्दशश्लोकभाष्यटीकायाम् 'कृषि-
भूवाचक: शब्दो णश्च निर्वृतिवाचकः । ' इति कृष्णशब्दोऽपि
पुरुषार्थहेतुत्व प्रतिपादन मुखेन परव्यूहाडिसमस्तावस्थासाधार-
ण इति ज्ञापनाय व्यापकयोः (नारायणवासुदेवशब्दयोः) मध्ये