This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
महिमा सुस्पष्टं प्रकाश्यते । यदा सा ' परं भावं भगवतो

भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्त-

त्सल ॥' इत्यभयं ययाचे, सद्यस्तदुपराघमक्षाम्यद्ल इत्यु-

च्यते
। ' ततो व्यमुञ्चद्यमुनां याचितो भगवान्बलः ।' अ-

नेन पूर्वोत्तराभ्यां स्थापितशरणागतवात्राणधर्मो ऽनेनापि प्रख्या-

पित इति सूच्यते
 
८९
 
।।
 
तालाङ्कस्य तथाविधा विहृतयः कनीयानिन

रागतालादौ नायं रसिकः । अस्य तालो ध्वजायेग्रे चिन्हभूतः ।

नेतरं तालं जानात्ययम् ॥
 

 
तन्वन्तु भद्राणि नः । 'नः शुभमातनोतु ' इति य
-
दुक्तं प्रथमश्लोके तदिहापि प्रार्थ्यते । उचितमिदं भद्रे भद्र-

प्रार्थनेति व्यज्यते बलभद्रनामदृष्टभद्रशब्दप्रयोगेण । किं

भद्रं प्रार्थ्यत इति चेदुच्यते उत्तरार्धे ॥
 

 
क्षीरं शर्कर येत्यादि । उभयोः शेषशेषिणोस्तव्द्यापारयो
श्च
परस्परापृथग्भूतत्वेनान्योन्यास्वादयितृत्वरूपं भद्रं विवक्ष्यते

भद्रप्रार्थने । शेषी क्षीरम् । शेष: शर्करा । शर्करीभूतः शेष:

शेषिणमधिकं स्वादयति । केवलो दाशरथी रामो न तथैकः

शोभेत, यथा गुहेन सहितो लक्ष्मणेन च सीतया । यावन्तः