2023-02-27 22:44:26 by ambuda-bot
This page has not been fully proofread.
दशावतारस्तोत्रव्याख्या ।
महिमा सुस्पष्टं प्रकाश्यते । यदा सा ' परं भावं भगवतो
भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्त-
बत्सल ॥' इत्यभयं ययाचे, सद्यस्तदुपराघमक्षाम्यद्वल इत्यु-
च्यते
। ' ततो व्यमुञ्चद्यमुनां याचितो भगवान्बलः ।' अ-
नेन पूर्वोचराभ्यां स्थापितशरणागतवाणधर्मो ऽनेनापि प्रख्या-
पित इति सूच्यते
८९
तालाङ्कस्य तथाविधा विहृतयः कनीयानिन
रागतालादौ नायं रसिकः । अस्य तालो ध्वजाये चिन्हभूतः ।
नेतरं तालं जानात्ययम् ॥
तन्वन्तु भद्राणि नः । 'नः शुभमातनोतु ' इति य
दुक्तं प्रथमश्लोके तदिहापि प्रार्थ्यते । उचितमिदं भद्रे भद्र-
प्रार्थनेति व्यज्यते बलभद्रनामदृष्टभद्रशब्दप्रयोगेण । किं
भद्रं प्रार्थ्यत इति चेदुच्यते उत्तरार्धे ॥
क्षीरं शर्कर येत्यादि । उभयोः शेषशेषिणोस्तव्यापारयो
परस्परापृथग्भूतत्वेनान्योन्यास्वादयितृत्वरूपं भद्रं विवक्ष्यते
भद्रप्रार्थने । शेषी क्षीरम् । शेष: शर्करा । शर्करीभूतः शेष:
शेषिणमधिकं स्वादयति । केवलो दाशरथी रामो न तथैकः
शोभेत, यथा गुहेन सहितो लक्ष्मणेन च सीतया । यावन्तः