This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
,
 
दृष्यक्षीकरणं मुख्य प्रयोजनम् । विशिष्टाद्वैतरूपभद्राण्ययं त
नोति । 'भद्राणि नस्तन्वीत' इत्युक्तम् 'नः शुभमातनोतु '
इतिवत् । किं भद्रं तन्वीतेति पृष्टे प्रतिवचनं दीयते उत्तरा-
र्धेन । उभयोरपृथग्भूतयोः क्षीरशर्करयोरिव परस्पररास्वाद-
कत्वम् । तादृशं भद्रमाशास्यते । तदेवाभिप्रेयत इव क्षेम-
शब्देन श्रीभट्टायैः । एतादृशापृथक्सिद्धिरूप भद्रविस्तारणा-
चस्म बलभद्र इति नामेवेति व्यञ्जयन्त्याचार्याः शुभार्थकय-
द्रशब्दमत्र प्रयुञ्जानाः । उमयोरनन्यत्वमामिप्रेत्य श्रीभाष्भ.
कारैर्बलरामकृतप्रलम्बमुष्टिकादिहननमपि कृष्णचेष्टितत्वेना-
वर्ण्यतेत्युक्तं तात्पर्यचन्द्रिकायाम् । 'भगवतो बलभद्रस्या.
प्येतदंशरूपत्वात्प्रलम्बमुष्टिकादिहननमध्येतत्कर्तृक तयोपात्तम्'
इति । तदेवानन्यस्वमत्रापि द्योत्यत इवाचार्यैरपृथग्भूत शब्दं
प्रयुब्जानैः ॥
 
८८
 
फकत्कौरवपत्तनप्रभृत्तयः कृष्णो गजं कुवलयापीडं
जधान । तज्ज्येष्ठो रामो गजाह्वयं नगरं हलाप्रेण विचकर्ष ।
प्रभृतिशब्देन यमुनाकर्षणवृत्तान्तो द्योत्यते। 'अनागतां इला-
श्रेण कृषितो विचकर्ष छ ।' पादयोः पतिता यमुना चक्रन्द
राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन
विघृता जगती जगतः पते ॥ इति । एनेन ब्रह्मवत्तस्य