This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
८७
 
भवच्छेषी च शेषः । शेषमत्यन्तं संमानयते शेषी । स च
शेषिधर्म: सम्यवस्थाप्यते । 'क्कचित्क्रीडापरिश्रान्तं गोपोत्स-
झोपबर्हणम् । स्वयं विश्रमयत्यार्थ पादसंवाहनादिभिः ॥
इति रामपादसंवाहनं कृष्णेन । बृहत्त्वप्रदर्शनं खलु मुख्य
कृत्यमत्र । तत्कंथं निरूप्यत इति चेत्, हलायेण हस्तिनपु-
रमाकृष्य गङ्गायां पातनम्, तेनैव यमुनाकर्षणमित्यादिभिः
कृत्यैस्तस्य बृहत्त्वमुपलक्ष्यते । ' अक्षत्त्रां क्षितिं करिष्यामि'
इत्याद्यो रामः । अद्य निष्कौरवामुव करिष्यामि' इति
तृतीयो रामः । यथा कृष्ण: शिशुर्विपुलोलुखलं चकर्ष तथा
तज्ज्येष्ठ: 'लाङ्गलाप्रेण नगरमुद्विदार्य गजाह्वयम् । विचकर्ष
स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ' उभयोर्भ्रात्रोः कर्षकत्वं स
मानम् । एक: संकर्षण:, अपरः कृष्णः । एको हलधरः ।
अपरश्चक्रधरः । एकेन शेषेणाद्यरामेण क्षितिर्निष्कण्टकं स-
न्ततचे । अनेन हलधरेण सा कृष्यत इव । क्षेमकृषीवलो-
ऽयं हलधर इति श्री भट्टपादाः । कौरवपत्तनफक्कनेन ब्रह्मवृं-
झितशेषस्याद्भुतबृहच्छाक्त प्रदर्श्यते । ब्रह्मणो बृहस्वं ब्रह्म-
यितृत्वं च दर्शितं भवति । शेषशेषिणोरुभयोरपृथग्भूतत्व-
रूपानन्यत्वं सम्यग्बोध्यतेऽत्र तद्वितीनाम पृथग्भूतत्वकथनेन
अपृथग्भूतशब्दः सिद्धान्तप्रतितन्त्रभूतमर्थमुद्धाटयतीव । त-
·
 
'