This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
अधर्मविरतिं धन्वी स तन्वीत नः । किं शुभमातनो-

त्वयम् । अधर्मविरतिरूपं शुभमातनोतु । भवसागरविरतिं

तनोतु । सागरशोषणवृत्तान्तेन सेतुनिर्माणं ज्ञाप्यते । तेन च

सेतुना ब्रह्महत्याद्यधर्मविरतिर्भवति । 'धन्वी सः
' इति
'वीर्य-
6
 

' राम: शस्त्रभृतामहम्' इति प्रसिद्धः स धन्वी ।
'वीर्य-
वान्न च वीर्येण महता स्वेन विस्मित: ' इति स्ववीर्यावि
-
स्मितोऽपि स्वयमेवावतारान्तरे दाशरथ्यवस्थमात्मानमेकध-

न्वित्वेन प्रशशंस । 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् '

इति प्रपन्नस्य शिष्यस्य तत्त्वमवश्यकथनीयम्, न गोप.
-
नीयम् । 'शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा' अनितरश-
रं

णानामाधिराज्ये ऽभिषिञ्चेच्छमित विमतपक्षा शार्ङ्गधन्वानु-

कम्पा' इति शरणागतत्राणविषये शार्ङ्गधन्वित्वकर्तिन कीर्तनमेत.
-
च्छ्लोकार्थं व्यञ्जयतीव ॥
 
८६
 
-
 

 
फक्कत्कौरवपत्तनप्रभृतयः प्रास्तप्रलम्बादय-

स्तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।

क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै
-
राकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ॥

 
शेषशेषिणावुभौ समकालं भुवमलंचक्रतुः । शेषश्च शेष्य-