This page has been fully proofread once and needs a second look.

नवृजिनविरचितस्तस्य भवसागर: । हनूमत्समेन गुरुणा चेत-
नस्य भर्तृप्रेप्सोत्कण्ठानिवेदने तत्संश्लेषव्यवधायकपापरूपभव-
सागरं शोषयति भगवान्विशिखदवाशुशुक्षणिना । चेतनज्ञा-
नाग्निना जनितो भगवत्क्रोधाग्निः सर्वकर्माणि भस्मसात्कुर्या.-
दित्यध्यक्षीकार्यत इव भगवता । अस्मज्ज्ञानजन्यभगवत्कोक्रो-
धाग्निरस्मत्पापसागरं शोषयति । नास्मज्ज्ञानमात्रस्य तत्सा-
मर्थ्यम् ॥
 
सर्वावस्थसकृत्प्रपणेन्नेत्यादि । सर्वलोकशरण्यकर्तृकशर-
'णागतिभङ्गरूपमहापराधिनमपि शरणं गतं ररक्ष । तव्द्य-
ज्यते सर्वावस्थेति । तादृक्प्रवृद्धो मन्युरार्द्रापिराधिनस्तस्य
प्रणामक्षणे शशाम ॥
 
धर्मो विग्रहवान् । शत्रोमोर्मारीचस्य वचनं रावणं प्रति ।
शत्रुमपि रमयति गुणै रामः । 'न रामः परदारान्वै चक्षु-
यिर्भ्यामपि पश्यति' इति तत्काले शात्रवाविष्टा कैकेयी ।
शत्रुकृतप्रशंसा कथमयथार्था स्यात् । तत्कृतप्रशंसां सर्वः
श्रद्धास्यति । अनुकूलकृतप्रशंसा पक्षपातप्रयुक्ता स्यात् ।
श्रद्धा खलु मुख्यमङ्गं प्रपत्ते: । सा चोत्पाद्यते शत्रुप्रशंसा-
शब्दोपादानेन । धर्मश्च प्रपत्तिरूपधर्मः स्यात् ॥