This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
८५
 
नवृजिनविरचितस्तस्य भवसागर: । हनूमत्समेन गुरुणा चेत-

नस्य भर्तृप्रेप्सोत्कण्ठानिवेदने तत्संश्लेषव्यवधायकपापरूपभव-

सागरं शोषयति भगवान्विशिखदवाशुशुक्षणिना । चेतनशा-
-
नाग्निना जनितो भगवत्क्रोधाग्निः सर्वकर्माणि भस्मसात्कुर्या.

दित्यध्यक्षीकार्यत इव भगवता । अस्मज्ज्ञानजन्यभगवत्को-

धाग्निरस्मत्पापसागरं शोषयति । नास्मज्ज्ञानमात्रस्य तत्सा-

मर्थ्यम् ॥
 

 
सर्वावस्थसकृत्प्रपणेत्यादि । सर्वलोकशरण्यकर्तृकशर-

'णागतिभङ्गरूपमहापराधिनमपि शरणं गतं ररक्ष । तव्य-

ज्यते सर्वावस्थेति । तादृक्प्रवृद्धो मन्युरार्द्रापिराधिनस्तस्य

प्रणामक्षणे शशाम ॥
 

 
धर्मो विग्रहवान् । शत्रोमोरीचस्य वचनं रावणं प्रति ।

शत्रुमपि रमयति गुणै रामः । न रामः परदारान्वै चक्षु-

यिमपि पश्यति' इति तत्काले शात्रवाविष्टा कैकेयी ।

शत्रुकृतप्रशंसा कथमयथार्था स्यात् । तत्कृतप्रशंसां सर्वः

श्रद्धास्यति । अनुकूलकृतप्रशंसा पक्षपातप्रयुक्ता स्यात् ।

श्रद्धा खलु मुख्यमङ्गं प्रपत्ते: । सा चोत्पाद्यते शत्रुप्रशंसा-

शब्दोपादानेन । धर्मश्च प्रपत्तिरूपधर्मः स्यात् ॥