This page has been fully proofread once and needs a second look.

समुद्रदहनसामर्थ्यं न्याय्यम्, लयप्रकरणात् । कारणे लय-
स्य न्याय्यत्वात् । प्रलयकारणत्वं च ब्रह्मणः । जन्मादे:
प्रत्येकं ब्रह्मलक्षणत्व मस्ति खलु । तच्छराणां तदिच्छामात्रेण
समुद्रदहनशक्ति: स्यात् । परावरस्य भगवतो विशिखः पा.-
रावारं दहति । ज्वालाजालविहारहारीति तत्साम्यं वा, तदा-
धिक्यं वा । दयानिधिना खलु प्रपत्तिमार्ग: प्रकाश्येत ।
उत्तरार्धे च प्रपत्तिः प्रस्तूयते । कथं पूर्वार्धे ईदृशनिष्करुण.-
त्वघोरत्वादिप्रदर्शनामति चेत् , तत्प्रत्युक्तं दयाशतके 'अपां
पत्युः शत्रूनसहनमुनेर्धर्मनिगलं कृपे काकस्यैकं हितमिति
हिनस्ति स्म नयनम् । विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्वि-
हृतिभिर्दिशत्येवं देवो जनितसुगतिं दण्डनविधिम् ॥' इति ।
सागरं दण्डायेडयितुं प्रवृत्तः कोपस्तद्धितं परिणनाम । अतः
पूर्वार्धेऽपि दया प्रभावस्यैव वर्णनम् । समुद्रराजं तादृशकोपज-
नकार्द्रापराधिनमपि शरणवरणक्षणे ररक्ष । तदहितांश्च तेनैव
कोपेन जघान । कोपस्यातिबृहत्त्व प्रदर्शनं तच्छमनोपायभूत-
नमस्कारस्य ततोऽपि बृहस्त्त्वं प्रदर्शयेत् ।' प्रत्यस्रमञ्जलिरसौ
तव निग्रहाखेस्त्रे ।' अन्यापि गतिर्वर्तते पूर्वोत्तरार्धयोरेकीकरणे +
सागर: प्रेप्सितां सीतां व्यवधत्ते । मध्यपाती स सीताप्रा-
प्तिपरिपन्थी । सीता च शोकान्मुमोचायचयिषितश्चेतनः । चे