This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
W
 
,
 
समुद्रदहनसामर्थ्य न्याय्यम्, लयप्रकरणात् । कारणे लय-

स्य न्याय्यत्वात् । प्रलयकारणत्वं च ब्रह्मणः । जन्मादे:

प्रत्येकं ब्रह्मलक्षणत्व मस्ति खलु । तच्छराणां तदिच्छामात्रेण

समुद्रदहनशक्ति: स्यात् । परावरस्य भगवतो विशिखः पा.

रावारं दहति । ज्वालाजालविहारहारीति तत्साम्यं वा, तदा

धिक्यं वा । दयानिधिना खलु प्रपत्तिमार्ग: प्रकाश्येत ।

उत्तरार्धे च प्रपत्तिः प्रस्तूयते । कथं पूर्वार्धे ईदृशनिष्करुण.

त्वघोरत्वादिप्रदर्शनामति चेत् तत्प्रत्युक्तं दयाशतके 'अपां

पत्युः शत्रूनसहनमुनेर्धर्मनिगलं कृपे काकस्यैकं हितमिति

हिनस्ति स्म नयनम् । विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्वि-

हृतिभिर्दिशत्येवं देवो जनितसुगतिं दण्डनविधिम् ॥' इति ।

सागरं दण्डायेतुं प्रवृत्तः कोपस्तद्धितं परिणनाम । अतः

पूर्वार्धेऽपि दया प्रभावस्यैव वर्णनम् । समुद्रराजं तादृशकोपज-

नकार्द्रापराधिनमपि शरणवरणक्षणे ररक्ष । तदहितांश्च तेनैव

कोपेन जघान । कोपस्यातिबृहत्त्व प्रदर्शनं तच्छमनोपायभूत-

नमस्कारस्य ततोऽपि बृहस्वं प्रदर्शयेत् ।' प्रत्यसमञ्जलिरसौ

तव निमहाखे ।' अन्यापि गतिर्वर्तते पूर्वोत्तरार्धयोरेकीकरणे +

सागर: प्रेप्सितां सीतां व्यवधत्ते । मध्यपाती स सीताप्रा-

प्तिपरिपन्थी । सीता च शोकान्मुमोचायषितश्चेतनः । चेव