This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
८३
 
काकुत्स्थ: किं न सागर मेखलाम् । महीं दहति कोपेन
युगान्ताग्निरिवोत्थितः ॥' इति सीतया पपृच्छे हनूमान् ।
स च प्रश्न आवेदितः प्रभोर्भक्तेन प्राज्ञेन दूतेन । सागरमेख-
लामिति वदन्त्या सीतया सागरोऽपि तस्य युगान्ताग्ने-
रिन्धनं भवेन्महीदहनायेति व्यञ्जितम् । ' जगत्सशैलं परि
वर्तयाम्यहम् ' इति च क्रोधसमये उक्तं भगवता । न मही
सीतामाता दिघक्ष्येत भगवता । मह्येकदेशभूतलङ्का ददहे
हनूमता ! सा च पुनर्नवीकृता । सागरेण महदपराद्धम् ।
तद्दहनं सीतामभिनन्दयेत्, इन्द्रजिदादिशत्रूंश्च विस्मापयेत्,
अपराधिनं समुद्रराजं च शिष्यात् । क्षितितक्षणमुक्तम् ।
इदानीं समुद्रदहनमुच्यते । नाटकेषु विचित्राद्भुतदर्शनान्या-
वश्यकानि ॥
 
पारावारपयोविशोषणेत्यादि । जलेन शाम्येत्प्रज्वलि
तोऽग्निः । अग्निना जलं तध्येत । आशीविषोपमावशिख-
दग्निना दिधक्ष्यतेऽब्धि: । 'अग्निर्वै मृत्युः सोऽपाम-
नम्' इति बृहदारण्यके याज्ञवल्क्यः । लोकनाशकोऽग्नि-
स्तन्नाशका आप इति मृत्युमृत्युत्वमपां दर्शितं तत्र । तद्-
न्यथा क्रियते भगवता ।' अग्नेरापः' इति श्रुतिः । अप्का-
रणकोऽग्निः । प्रलयाग्नौ अपां लय उचितः । प्रलयाग्नेः