This page has been fully proofread once and needs a second look.

सायका निष्पतन्त: । सौमित्रे तिष्ठ पात्वं त्वमसि न हि
रुषां नन्वहं मेघनादः किंचिद्भ्रूभङ्गलीलानियमितजलाधं राम-
मन्वेषयामि ॥ ' इति श्लोके ॥
 
अस्यावतारस्य मुख्यं प्रयोजनं शरणागतिरूपसूक्ष्मधर्मप्र-
काशनम् । तद्धर्मसंस्थापनार्थोऽयमवतारः । सुग्रीवं प्रपन्नं
जिघांसंस्तत्पितृसमस्तज्ज्येष्ठो वाली अस्य प्रथमवध्योऽभूत् ।
अनन्तरमेव रावणः । यद्यपि स भार्यापहारी महापराधी,
न स प्रपन्नं कमप्यहिनत् । मतङ्गाश्रमरूपस्थलविशेषलाभा-
त्सुग्रीवप्राणा ररक्षिरे । यो धर्म: प्रतितिष्ठापयिषितस्तद्विघाती
प्रधानशत्रुर्भागवतः । नूतनाश्रितो विभीषणो राघवेण समुद्र-
शरणवरणं रुरुचे । तदिच्छामनुरुध्याञ्जलिं प्राङ्मुखः कृत्वा
प्रतिशयनभूमिकया पयोधिपुलिनमभूषयत् । अवतारभूमि-
कामध्ये प्रदर्शिता प्रतिशयनभूमिका । तेन चोद्यतो महादधि-
रधिकमधिकं विजजृम्भे । सागरतरणार्थं मार्गादानेन न चु-
क्रोध प्रभुः । किं तु प्रपत्तिमार्गविहननेन । तदानीमेव समु
द्रराजस्य शृण्वत उद्घोषित: प्रभुणा तत्पुलिने प्रपत्तिधर्मः ।
तद्धर्मविहनने महान् क्रोध: समजनि । तत्समयसंरम्भवि-
जृम्भितस्तस्य सर्वेश्वरभाबः, यो महता प्रयत्नेन पूर्वं गुप्तः ।
उद्घोषितं च तदा 'सागरं शोषयिष्यामि' इति । 'कुशली यदि