This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या।
 
मुने: ' इति तस्य मुनित्वेन ग्रहणं वेण्याम् ॥

 
पारावारपयोविशोषणकलापारीण कालानल-
८३
 

ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।

सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
 

धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वति नः ॥
 

 
निरतिशयबृहत्वादिपरत्व प्रदर्शनमस्मिन्नवतारे कथं श-

क्यम् । 'आत्मानं मानुषं मन्ये' इति ब्रह्मत्वमत्यन्तं विस-

स्मरेऽवतरता भगवता । आसुरमोहनार्थं तानात्मनो मानु-

षत्वं मानयितुं मुक्तकण्ठं रुरोद दण्डकेषून्मतवत्, पामर-

वच्
च । अस्मिन्नवतारेऽपि परत्वं प्रदर्शनीयं ब्रह्मत्वाहानार्थम्,

अवतारेष्वपि बृहत्त्वमध्यक्षयितुं च । कथमेतत्संपाद्येत । यद्यपि

न स्वयं बृहत्वं प्रदर्शयामास तच्छरेण प्रलयाग्नेरपि

घोरतरं सागरशोषणरूपोपसंहर्तृत्वादिकं प्रादर्शि । तच्छरस्य

तादृशबृहत्वेन तद्बृहस्व मध्यक्ष्येत । शूरतमः शत्रुपक्षप्रधा-

नमल्लः शक्रजिदेतस्मिन् सागरशोषणविक्रमं दृष्ट्वा विसिष्मिये,

तेन च राममुत्तमवीरं स्वसदृश प्रतियोद्वाधारं मेने इति सुन्दरं

प्रदर्श्यते काव्यप्रकाशोदाहृते 'क्षुद्रा : संत्रासमेते विजद्दत
हत
हरयः क्षुण्णशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी.
 
,