This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या।
 
मुने: ' इति तस्य मुनित्वेन ग्रहणं वेण्याम् ॥
पारावारपयोविशोषणकलापारीण कालानल-
८३
 
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
 
धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वति नः ॥
 
निरतिशयबृहत्वादिपरत्व प्रदर्शनमस्मिन्नवतारे कथं श-
क्यम् । 'आत्मानं मानुषं मन्ये' इति ब्रह्मत्वमत्यन्तं विस-
स्मरेऽवतरता भगवता । आसुरमोहनार्थं तानात्मनो मानु-
षत्वं मानयितुं मुक्तकण्ठं रुरोद दण्डकेषून्मतवत्, पामर-
वच । अस्मिन्नवतारेऽपि परत्वं प्रदर्शनीयं ब्रह्मत्वाहानार्थम्,
अवतारेष्वपि बृहत्त्वमध्यक्षयितुं च । कथमेतत्संपाद्येत । यद्यपि
सन स्वयं बृहत्वं प्रदर्शयामास तच्छरेण प्रलयाग्नेरपि
घोरतरं सागरशोषणरूपोपसंहर्तृत्वादिकं प्रादर्शि । तच्छरस्य
तादृशबृहत्वेन तद्बृहस्व मध्यक्ष्येत । शूरतमः शत्रुपक्षप्रधा-
नमल्लः शऋजिदेतस्मिन् सागरशोषणविक्रमं दृष्ट्वा विसिष्मिये,
तेन च राममुत्तमवीरं स्वसदृश प्रतियोद्वारं मेने इति सुन्दरं
प्रदर्श्यते काव्यप्रकाशोदाहृते 'क्षुद्रा : संत्रासमेते विजद्दत
हरयः क्षुण्णशक्रेभकुम्भा युष्मदेहेषु लज्जां दधति परममी.
 
,