This page has been fully proofread once and needs a second look.

८०
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
येण वध्यसंख्यायाम् । अयं ब्रह्मचारी । अयं ब्राह्मणः
,
न जितं राज्यमीप्सेत् । राजगुणभूतरञ्जन व्यापारोऽस्यात्य-

न्तमशक्यः । विप्रत्वाद्विरक्तत्वाच्च जितां पृथिवीं काश्यपाय

प्रादात् । ब्राह्मणस्येदृशी विरक्ति: । राज्ये यदि सज्जेत

तदर्थमेव क्षत्त्रहननं भवेत्, न पितृसन्तर्पणार्थम्, क्रोधा-

ग्निसन्तर्पणार्थं वा । राज्यकामना क्रोधैकान्त्यं विन्यात् ।

अयं क्रोधमेव जानाति, नार्थकामौ । धर्मं तु जानातीति

तृतीयपादेन बोध्यते ॥
 
,
 

 
दत्वा कर्माणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं

वसन् । न स्वावस्थानार्थं स्वल्पमपि स्थलमियेष । कृत्स्नं

ददौ । दत्वा भूमेर्बहिर्गत्वा समुद्रमास्कन्द्य तत्र स्वतेजसा कं.
-
चित्स्थलं कल्पयित्वा त्रोवास ॥
 

 

 
अब्रह्मण्यमपाकरोतु भगवान ब्रह्मकीटं सुनिः। किं

शुभमयं क्रोधैकर आतन्वीतेति चेत्, आब्रह्मक्रीटमब्रह्म-

ण्यमपाकुर्यादित्युच्यते । ब्रह्मण्यविरोधे किमापद्येत । 'ब्रा -

ह्मणो मम देवता' इत्युक्तभगवद्दैवतस्य हानि: स्यात् ।

धर्मेण लोको ध्रियते । दैवेन लोको धियते । वेदैर्लोको

ध्रियते । तत्वित्रितयं ब्राह्मणाधीनम् । असहनमुनिरित्युक्तः

कोपनो मुनिः । 'आँशस्त्रग्रहणादक्कुण्ठपरशोस्तस्यापि जेता