This page has been fully proofread once and needs a second look.

७८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
"
 
त्वनिवृत्तये । जमदग्निरित्यग्निरूपाक्षरघटितनाळाया पिता । त-

मग्
निं पीडयामास शत्रुः । तदाप्तभूतपुत्रस्य क्रोधाग्निस्तेनाजा-

ज्वल्यत । पीडितोऽग्निरन्यमग्निमुदपायत् । अयं पुतः पि-
त्रः पि-
तृवघोधोत्थित क्रोधामिंग्निं पितरं जमदर्भिग्निं मेने, उभयोरप्यग्न्यन्त.
-
त्वात् । क्रोधाग्निं च पितरं मत्वा तं संततर्प शत्रुजातिक्षत
-
जधाराभि: । दीर्घायुश्चिरजीवी परशुराम: तत्क्रोधोऽपि चिर-

जीवी । बहुकालं तेन पितृतर्पणं कार्यम् । चिरजीविनः

क्रोधो दीर्घः । क्रम/मादेकविंशतिकृत्वः प्ररोहतीर्नवनवक्षत्त्रिय-

सन्ततीर्विच्छिद्य विच्छिद्य तद्रक्तधाराभिर्निवापाञ्जलिं ददौ ।

क्रुद्धस्य करुणागन्धो न स्यात् । शत्रुरुधिरदर्शनं तस्य परमश्प्री-

णनं भवेत् । स्त्र्यपि द्रौपदी दुःशासनरुधिरेण स्वकेशपाशमा-

ञ्
जिजिषत् । क्रोधामौग्नौ रुधिरमेव होतव्यम् । ' देव: स्वर्गग-

तोऽपि शात्रववधेनाराधितः स्यात्' इति राक्षसः । दिवं ग-

तोऽपि पिता शत्रुवधेनारात्स्येत । अमृतत्वतुल्यत्वेन वर्णि
तं
स्वर्गसुखमनुभवन्नपि ततोऽप्यधिकं सुखमनुभवेच्छत्रुवधेनेति

मुद्राराक्षसश्लोकस्य भाव इत्यवधेयम् । अग्नावाज्यादिकं
 

क्रमेण हूयेत, न यौगपद्येन, सकृद्वा । ' क्रमेण युगपद्वा'
 

इति विकल्पशिरोवर्णनं क्षणभङ्गवादिमिभिस्ताथागतैः । नास्य

क्रोधस्य क्षणिकत्वम्, किं त्वनेकजन्मानुगतत्वम् । अतः