This page has not been fully proofread.

७८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
"
 
त्वनिवृत्तये । जमदग्निरित्यग्निरूपाक्षरघटितनाळा पिता । त-
मनिं पीडयामास शत्रुः । तदाप्तभूतपुत्रस्य क्रोधाग्निस्तेनाजा-
ज्वल्यत । पीडितोऽग्निरन्यमग्निमुदपाइयत् । अयं पुतः पि-
तृवघोत्थित क्रोधामिं पितरं जमदर्भि मेने, उभयोरप्यग्न्यन्त.
त्वात् । क्रोधाच पितरं मत्वा तं संततर्प शत्रुजातिक्षत
जधाराभि: । दीर्घायुश्चिरजीवी परशुराम: तत्क्रोधोऽपि चिर-
जीवी । बहुकालं तेन पितृतर्पण कार्यम् । चिरजीविनः
क्रोधो दीर्घः । क्रम/देकविंशतिकृत्वः प्ररोहतीनवनवक्षत्रिय-
सन्ततीविच्छिद्य विच्छिद्य तद्रतधाराभिर्निवापाञ्जलिं ददौ ।
क्रुद्धस्य करुणागन्धो न स्यात् । शत्रुरुधिरदर्शनं तस्य परमश्री-
णनं भवेत् । स्त्र्यपि द्रौपदी दुःशासनरुधिरेण स्वकेशपाशमा-
जिजिषत् । क्रोधामौ रुधिरमेव होतव्यम् । ' देव: स्वर्गग-
तोऽपि शात्रववधेनाराधितः स्यात्' इति राक्षसः । दिवं ग-
तोऽपि पिता शत्रुवधेनारात्स्येत । अमृतत्वतुल्यत्वेन वर्णित
स्वर्गसुखमनुभवन्नपि ततोऽप्यधिकं सुखमनुभवेच्छत्रुवधेनेति
मुद्राराक्षसश्लोकस्य भाव इत्यवधेयम् । अग्नावाज्यादिकं
 
क्रमेण हूयेत, न यौगपद्येन, सकृद्वा । ' क्रमेण युगपद्वा'
 
इति विकल्पशिरोवर्णनं क्षणभङ्गवादिमिस्ताथागतैः । नास्य
क्रोधस्य क्षणिकत्वम्, किं त्वनेकजन्मानुगतत्वम् । अतः