This page has been fully proofread once and needs a second look.

७६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
य्यं स्यात् । यदि प्रजारक्षणार्थं नियुक्ता अधिकारिणस्तत्रापि

सेनाधिकारिणः स्वयं प्रजाघातुका भवेयुस्तेषां प्राणान्तिको

दण्डो न्याय्य: स्यात् । तथैवेदानीं नियमः सर्वेषु देशेषु

सेनानये । को ब्राह्मण: ? ' मौनं चामौनं च निर्विद्याथ

ब्राह्मण: ' इति श्रुतिप्रतिपादितो महातपस्वी 'ब्रह्मण एवायम्'

ब्रह्ममात्रसंबन्धी । शमप्रधानास्तपोधना राज्ञा सर्वथा रक्ष.
-
णीयाः । तद्विषये किंचित्कारेण तत्सुकृतं सर्वमपि दायत्वेन

लभ्यते । तदपकृतौ च तद्दुष्कृतं सर्वमपकारिणि सङ्क्रमेत् ।

'शास्त्रफलं प्रयोक्तरि ' इत्यनुल्लङ्घनीयं न्यायमपोद्यात्यन्तादरे-
जै

णै
नं निरायुधं क्रुध्यन्तमप्रतिक्रुध्यन्तं स्वदेहयात्रायां निरपेक्
षं
रक्षितुं श्रुतिरेवं शशास । कार्तवीर्य : प्रसिद्धः पृथिवीपाल: ।

'
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ।

अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ॥'

इति हृषीकेशवत्प्रजानामकार्य चिन्तनसमय एव चापहस्तः

पुरस्तादाविर्भूय भीषयित्वाकार्यकरणान्निवारयामास । तादृशी

सिद्धि: संपादिता तेन परेषामकार्यनिवारणे । यदि स धर्म-

सेतु: स्वयं तपस्विब्राह्मणपीडको भवेत् , तत्पुत्रस्य कोपो

जायेतैव । रौद्रबीभत्सरसौ प्रदर्श्येतेऽस्मिन्नवतारे । क्रोधो न

सहजो भगवतः । आहार्यः स तस्य । ' क्रोधमाहारयामास '
 
"