This page has been fully proofread once and needs a second look.

७४
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
सर्वं पृथिवीतलं निबिडं निरन्तरं पस्पर्श पादेन । एतद्व्यज्यते

ऋषिणा 'वसुधातले चचार' इति । पूर्वं वामनश्चचार ।

इदानीं तदभिन्नस्य तव तदाश्रमे सञ्चरणं संपाद्य, तत्सश्चर-

णानन्दमनुभवेयमिति खलु मयात्र त्वदानयनम् न ऋ, न क्रतुर-

क्षणार्थमित्यपि व्यज्यते । ' नभःस्थले लङ्घितार्कशशिमण्डल:

क्रमः' इति माघानुभव: । 'चरणपङ्कजेनाङ्कितम्' इति

दयाशतके ॥
 
,
 

 
यत्प्रस्तावसमुच्छ्रित ध्वजपटीवृत्तान्तसिद्धान्तिभिः स्रो-

तोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते । शौरिपदो-

ज्झिता सुरसरिदाकाशे निष्पतन्ती दिक्षु सर्वत्र व्यापिनी:

शुभ्रा: फेनच्छटा: प्रक्षिपति । गिरिनिर्झरपातं दृष्टवतामेत-

त्सुविदितं स्यात् । ताश्च यशस्ततय इव, श्वेतध्वजपटा इव

च दृश्यन्ते । ' नलः सितच्छत्रित कीर्तिमण्डलः' इति नैष-

धारम्भे । स्वग्रन्थस्यापि तादृशयश आशास्त इव कविर्यथा

सुधावत्स्वग्रन्थस्य सुरैरपि पानमाशास्ते । पूर्वार्धे 'कथाम्'

इति पठता तन्मनोरथः स्पष्टमेव प्रकटचित्टीचक्रे, स्वकाव्यस्यापि

तत्कथात्वात् । सिद्धान्तशब्देन स्वसिद्धान्तगुरुपङ्किक्तिविषयः

'
दिक्सौधाबद्धजैत्रध्वजपट...' इत्यादिश्लोक: स्मार्यत इव ।

नाभीपद्मसिद्धान्तवदर्ययं पादप्रदर्शितो भगवत्परत्वसिद्धान्तः ।