2023-02-27 22:44:22 by ambuda-bot
This page has not been fully proofread.
७४
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
सर्व पृथिवीतलं निबिडं निरन्तरं पस्पर्श पादेन । एतव्यज्यते
ऋषिणा 'वसुधातले चचार' इति । पूर्वं वामनश्चचार ।
इदानीं तदभिन्नस्य तव तदाश्रमे सञ्चरणं संपाद्य, तत्सश्चर-
णानन्दमनुभवेयमिति खलु मयात्र त्वदानयनम् न ऋतुर-
क्षणार्थमित्यपि व्यज्यते । ' नभःस्थले लङ्घितार्कशशिमण्डल:
क्रमः' इति माघानुभव: । 'चरणपङ्कजेनाङ्कितम्' इति
दयाशतके ॥
,
यत्प्रस्तावसमुच्छ्रित ध्वजपटीवृत्तान्तसिद्धान्तिभिः स्रो-
तोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते । शौरिपदो-
ज्झिता सुरसरिदाकाशे निष्पतन्ती दिक्षु सर्वत्र व्यापिनी:
शुभ्रा: फेनच्छटा: प्रक्षिपति । गिरिनिर्झरपातं दृष्टवतामेत-
त्सुविदितं स्यात् । ताश्च यशस्ततय इव, श्वेतध्वजपटा इव
च दृश्यन्ते । ' नलः सितच्छत्रित कीर्तिमण्डलः' इति नैष-
धारम्भे । स्वग्रन्थस्यापि तादृशयश आशास्त इव कविर्यथा
सुधावत्स्वग्रन्थस्य सुरैरपि पानमाशास्ते । पूर्वार्धे 'कथाम्'
इति पठता तन्मनोरथः स्पष्टमेव प्रकटचित्रे, स्वकाव्यस्यापि
तत्कथात्वात् । सिद्धान्तशब्देन स्वसिद्धान्तगुरुपङ्किविषयः
दिक्सौधाबद्धजैत्रध्वजपट...' इत्यादिश्लोक: स्मार्यत इव ।
नाभीपद्मसिद्धान्तवदर्य पादप्रदर्शितो भगवत्परत्वसिद्धान्तः ।