This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
तीति चारु प्रदर्श्यते आचार्यै: 'जडकिरणशकलघरजटिल-
नटपतिम कुटतटनटनपटुविबुधसरित्' इत्यादिना । नृत्यतश्चू-
डायां तत्स्था शशिकलापि नरीनर्ति । गङ्गा चातिवेगं सबह्वा-
वर्त नृत्यति । धूर्जटेरङ्गमर्ध नारी, अर्ध पुमान् । उमाकृतव्य-
तिकरे तदङ्गे लास्यताण्डवभेदेन द्वेधा विभक्तं नाट्यम् । यद्यपि
रुद्रः स्वार्धभूतया नार्यांयमतिसुकुमारलास्यमपि दर्शयतीति
रुद्रशब्देन व्यज्यते महाकविना । सन्ध्यायां चेदं नर्तनम् । एवं
खलु श्रीनटराजस्य नटनमनुभाव्यमिति प्रदर्श्यते तद्रसज्ञै-
राचार्यै: । 'कदा पुनस्त्रिविक्रम त्वच्चरणारुणाम्बुजं मदीय-
मूर्धानमलंकरिष्यति' इत्युत्कण्ठन्ते महान्तः । अस्मदज्ञानद-
शायामलंकरणेन न तुष्याम: । पुनः कदा वयमनुभवाम
इत्युत्कण्ठ्यत इति पुन:शब्देन योत्यत इव । 'विष्णुं क्रान्तं
वासुदेवं विजानन्' ' लोकविक्रान्तचरणौ शरणं तेऽब्रजं
प्रभो' इत्यादिवचनान्यत्व भाव्यानि । विश्वामित्रः 'विष्णु-
मनुषरूपेण चचार वसुधातले' ' मया तु भक्त्या तस्यैव
वामनस्योपभुज्यते' इति च पुंसां दृष्टिचित्तापहारिविग्रहस्य
रामस्य पुरतो वामनस्य शोभां प्रशशंस । वामनावतारस्य
सर्वातिशायिलावण्यमिति वकुलभूषणादिभावुकानामनुभवः ।
भूमौ पादं न निक्षिपेयुर्देवा लाघवभिया । अयं देवदेवः
 

 
७३
 
B