This page has been fully proofread once and needs a second look.

७२
 
श्
यद्यपि यशस्वी प्रभुर्व्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यद्यपि यशस्वी प्रभु
डाविद्धोऽधोमुखस्तिष्ठति, औदार्ययश:
-
सोरल्पदानेन ह्रासः समजनीति, अयं तद्दुणजितः शत्रुभट-
स्तब

स्तद्य
श उद्धतमुद्घोषयतीति घाटीशब्देन व्यज्यते । यशसः

स्वयं प्रथनं स्वभावः 'न हि कस्तूरिकामोदः शपथेन नि-
बा

वा
र्यते । ततोऽप्यम्ग्रयायी भवत्ययमप्रभट: । स्वतः प्रथने

भगवतो बृह्मणत्वं न सिध्येत् ॥
 

 

 
त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः । शिव-

स्य शिवत्वकरणं प्रथमम् । अनन्तरं त्रिजगतः पवित्रीकरणं

पादविन्यासेनेति व्यज्यते । 'देवो नः शुभमातनोतु' इति

खलु शुभत्वविस्तारणमवतारेभ्यः प्रार्थितम् । शुभत्वरूपशि-

वत्वं प्रदीयते । 'त्रैयक्षम्' इत्यक्षित्रयेणापि सादरवीक्षणं

भगवत्पादस्य मकुटनिवेशनकाल इति व्यज्यते । सादरं

सानन्दं तत्र वीस्त्रीण्यपि विलोचनानि व्यापारयामासेति भावः ।

धूर्जटिशिरसि पतन्ती गङ्गा विचित्रं श्प्रीणात्याचार्यान् । विन्ध्या-

चलविकटसन्ध्यानटजटापरिभ्रान्तेति गङ्गा वर्ण्यते । नटराजो

धूर्जटि: । सन्ध्यायां सन्ध्यारक्तजटाभिर्विचित्रमानन्दताण्डवं

वर्तयते । नृत्यतस्तस्य शिरसि गङ्गा विष्णुपदान्निपत्य भूयो
-
भिरावर्तैरतिद्रुतं बम्भ्रमीति । को वा तद्दर्शनेन न रञ्जितो

भवेत् । नृत्यत: शंभोर्जटासु पतन्ती गङ्गा विचित्रं नृत्य-