This page has not been fully proofread.

७२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यद्यपि यशस्वी प्रभुडाविद्धोऽधोमुखस्तिष्ठति, औदार्ययश:
सोरल्पदानेन ह्रासः समजनीति, अयं तद्दुणजितः शत्रुभट-
स्तबश उद्धतमुद्घोषयतीति घाटीशब्देन व्यज्यते । यशसः
स्वयं प्रथनं स्वभावः न हि कस्तूरिकामोदः शपथेन नि-
बार्यते । ततोऽप्यम्रयायी भवत्ययमप्रभट: । स्वतः प्रथने
भगवतो बृह्मणत्वं न सिध्येत् ॥
 

 
त्रैयक्षं मकुटं पुनन्नवतु नत्रैविक्रमो विक्रमः । शिव-
स्य शिवत्वकरणं प्रथमम् । अनन्तरं त्रिजगतः पवित्रीकरणं
पादविन्यासेनेति व्यज्यते । 'देवो नः शुभमातनोतु' इति
खलु शुभत्वविस्तारणमवतारेभ्यः प्रार्थितम् । शुभत्वरूपशि-
वत्वं प्रदीयते । 'त्रैयक्षम्' इत्यक्षित्रयेणापि सादरवीक्षणं
भगवत्पादस्य मकुटनिवेशनकाल इति व्यज्यते । सादरं
सानन्दं तत्र वीण्यपि विलोचनानि व्यापारयामासेति भावः ।
धूर्जटिशिरसि पतन्ती गङ्गा विचित्रं श्रीणात्याचार्यान् । विन्ध्या-
चलविकटसन्ध्यानटजटापरिभ्रान्तेति गङ्गा वर्ण्यते । नटराजो
धूर्जटि: । सन्ध्यायां सन्ध्यारक्तजटाभिर्विचित्रमानन्दताण्डवं
वर्तयते । नृत्यतस्तस्य शिरसि गङ्गा विष्णुपदान्निपत्य भूयो
भिरारतिद्रुतं बम्भ्रमीति । को वा तद्दर्शनेन न रञ्जितो
भवेत् । नृत्यत: शंभोर्जटासु पतन्ती गङ्गा विचित्रं नृत्य-