This page has not been fully proofread.

दशावतारस्तोत्र व्याख्या ।
 
७१
 
ति । दानेऽप्यल्पमेव याचितमपूर्वदुर्लभपावेणेति लज्जया वि
द्धो भवति । तल्लज्जागुणेन विद्धो भवति प्रतिग्रहीता भग-
वान् ' हिया देयम्' इति शास्त्रीयधर्मानुष्ठानेन सन्तोषितः ।
उदारो भगवानौदार्यरसज्ञः । दातरि हरूिपश्रियः शोभां स
एव वेद । स्वस्य याच्याजन्यत्रीडावृतत्वेऽप्यल्पयाच्याप्रयुक्त-
व्रीडाविद्धत्वरूपदातृगुणेन विद्धस्तथशो दिगन्तेषु स्वेनैव सद्य:
पादचारेण गत्वा प्रथनीयमिति दिशोऽन्तान्धावतीव बृहद्रूपं
परिगृह्य । नायं त्रिविक्रमावतारो जगन्ति मातुम्, स्वीकर्तुम्,
इन्द्राय प्रदातुं च । किं तु दातुर्बलेरौदार्ययश: स्वयं क्षण-
काले दिगन्तविश्रान्तं प्रथयितुमित्याचार्या व्यञ्जयन्तीव ।
यद्यप्यवतारात्पूर्वमन्य उद्देशोऽभूत्, अधुना तद्विस्मृत्य व
लियशसः सद्यः प्रथनमेव कामते बलिगुणविद्धेन । वदान्य-
शब्दो वद अन्यदपीति व्युत्पन्नः स्यादिति भाति । 'अन्यं
वरं वृणीष्व, अन्यद्वद ' इति खल्ववोचदाता दानवः । तद्वि-
षये वदान्यशब्दोऽन्वर्यः । ईदृशव्युत्पत्तिरप्याचार्यांभिप्रेतेव !
वदान्यदानव शब्दयोरत्यन्तं वर्णसाम्यम् । दानवेषु वदा-
न्यो दुर्लभ इति तस्याधिकं यशः । बलिं जेतुमागतो भग-
वांस्तद्रीडागुणेन जित: स्वयं तद्दास्यमङ्गीकृत्य तत्सेनाप्रभटो
भूत्वा तद्विजयध्वजं स्वयं पादचारेण सर्वत्र नयन्त्रटाट्यते ।