This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
ज्न्यं शब्दं सहेत । जयभेरी संपादितेत्युक्तम् । अष्टसु दि-

क्सौधेषु स्थिरध्वजपट्टिका: स्थाप्यन्त इति प्रदशर्र्श्यतेऽत्राचार्यैरि-

ति रसिकैर्भाव्यम् । त्रिविक्रमयशो वेदो घोषयतीति श्रीमद्भ-

ट्टार्या: । जिगीषितस्य दैत्यस्यौदार्येण जितोऽजितो वामनस्त-

द्यशः प्रख्यापयितुं स्वयं लोकविक्रान्तभटो भूत्वा पदातिरेव

लोकानतिवेगेन क्षणकालेनाक्रम्याष्टसु दिशासौधेषु पवि-
वा

त्रा
मृतध्वजपटीर्वर्तयति स्वचरणनिर्गलत्सुरसिन्धुस्रोत: फेनै-

रित्याचार्या : प्रदर्शयन्ति । ' ध्वजारविन्दाङ्कुशवञ्चज्रलाञ्छनम्
'
इति चरणगतध्वजेनापि वित्रिजगदङ्कनं चारु प्रदर्श्यते । वाम
-
नभूमिकया वैरोचनसद: प्रवेशः । करे पतिते तोये वामनस्त्रि-

विक्रमो भवति । पूर्वावतारे विग्रहविशिष्टस्य भगवतो व्या-

प्तिर्न्यरूपि । अधुना विग्रहैकदेशभूतपादमात्रेण त्रिजगव्या
द्या-
प्तिर्निरूप्यते । स्वयं बृहत्त्वं वदान्यस्य बलेर्यशसो बृह्मणत्व-

मित्युभयरूपं ब्रह्मत्वं प्रदशर्यत इत्यवधेयम् ॥
 
-
 
-
 

 
व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः । औदा-

र्यजलधिर्भगवान्बलिं याचते । याच्नाया व्रीडा सहजा ।

तया च प्रांशोरपि वामनीभवनं सहजम् । महत्या नवीन-

दीनभावजन्यत्व्रीडया विध्यते भगवान् । ततोsपि महती

दातुर्बलेर्व्रीडार्थिनोऽल्पयाचने । प्रतिषेधन्तं गुरुमुल्लङ्घ्य ददा-