This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
६९
 

 
-
 

 
यद्रीत्यार्थवर्णने ईशानरूपश्रुतेरितीश्वरपरत्व तात्पर्यं विवर्ण-

यिष्येत तत्पक्षपातिभिरिति तेषामाशय: स्यात् । वामन
-
शब्दो नियतं भगवन्तमेव बोधयेत् । पादपद्मो भुवो माता
,
पिता वा, उभयं वा । तदाश्लेषे वत्सभूतस्त्रिजगत्तत्रासज्जत ।

अणोर्वा मनस्य पादपद्मेऽणुपरागवत्त्रिलोकी निलिये । का-

रणे लय: सहजः । एतेन भगवतो निरतिशयबृहत्त्वम्, विश्व-

शरीरत्वं च विचित्रमुपपादितं भवति। लयानन्तरं सृष्ट्या

भाव्यम् । भगवतोऽन्यतः कुतः सृष्टिसंभवः । तल्लक्षणत्वेन

तदसाधारणं खलु विश्वस्रष्टृत्वम् । तद्वयवान्तरं नाभीप-

द्म
मन्यं भुवनप्रामं सिसृक्षति । तन्नालीकसृष्टब्रह्मसृष्टं जग-

त्स्वदेह्यवयवान्तरभूतपद्मान्तरस्य नालमभूदिति स्पर्धयेवान्य-

न्मानक्षमं जगत्सिसृक्षति । नित्योऽपौरुषेयो वेदो बन्दीव

त्रिविक्रमयशांसि गायति । ताताड्यते तद्विक्रमडिण्डिमम् ।

ऋगेषा भेरीदुन्दुभिताडनवदुच्चगम्भीरा शब्दतोऽर्थतश्चेति रसि-

कमनःसाक्षिकम् । ' उरुगाय : ' इति वदन्ती श्रुतिस्तद्यश सो

गायमानत्वं व्यनकिक्ति । उरुभिर्बहुभिरुरु विस्तीर्णं दीर्घमुच्चै-

रुद्गीयत इत्युरुगायः । उरुगाने उरुतालापेक्षा स्वरसा । सा

च पूर्यते श्रुत्यैव दुन्दुभिनिर्ह्रादगम्भीरशब्दैः । शब्देस्तालो

निर्व॑र्त्यते । वेदशन्देषु सर्वे शब्दा अन्तर्भवेयुः । न शब्दो-
-