This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
&
 
तुकं प्रदर्श्यते आनन्दमयस्य ब्रह्मणोऽस्तित्वं मातापितृसह-
स्त्रेभ्यो वत्सलतरया श्रुत्या । 'अस्ति ब्रह्मेति चेद्वेद' इत्यादि-
लोक: पुच्छवदानन्दमयविषये पठितः । ब्रह्मण आनन्दम-
यत्वेनास्तित्वं सर्वलोकहृदयारूढं यथा स्यात्तथा निरूपयति
'रसो वै सः, रसं होवायं लब्ध्वानन्दी भवति' इति
भुतिः सर्वाः प्रजाः सत्तां लभेरन्नित्याशया । प्रजानामसत्क-
रूपत्वं मातृदुःखाय भवेत् । श्रोत्रियस्य चाफामहतस्येत्यका-
महतत्वं हेतूक्रियते निरतिशयानन्द प्राप्तौ । कथं सर्वतो
विरकस्य रतिरिति चेदात्मकामोऽयम्, आत्मरतिः। 'अ-
यम्' शब्देन व्यफसर्वपरिग्रहोऽभ्युपगत समस्तक्लेशरूपधर्म-
स्तपस्वी विवक्षितः । एवं च ब्रह्मणः स्वान्तरानन्दमयत्वेना-
स्तित्वं ब्रह्मविद्नुभूयमानानरतिशयानन्दनिदर्शनेन लोकाय-
तिकानामपि हृदयारूढतया सुविशदं प्रदर्श्यतेऽनया श्रुत्या ।
प्रसनं मुखं ब्रह्मविस्वे स्पष्टं लिङ्गमिति 'ब्रह्मविद इव ते सो-
म्य मुखं भाति । इत्युपकोसलं प्रत्याचार्यवचनं बोधयति ।
श्रुतिस्थ मुखशब्दो ब्रह्मविदवयवान्तराणामप्युपलक्षणमिति दर्श-
यन्त्यचार्याः ' अङ्गान्यस्य मुहुर्मुहुः पुलाकतान्यन्तर्मुखं
मानसं चिन्ता च दुसशर्करा
प्रतिनिधिः शीताश्रणी लो-
बने । इति संकल्पसूर्योदये 'आहादशीतनेत्राम्बुः पुलकी-