This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
,
 
+
 
कृत्वान्वर्थ्यते, तथा नृसिंहावतारविषये कृता प्रार्थनेदानीं पूर्यते

त्रिजगतां पादाम्भोजस्पर्शदानेन । तत्संयोग एव परमपुरु
-
षार्थ: । वैरोचनो यद्यपि दितिजः, स परमोदार: । यस्मै

कस्मैचिदर्थिनेऽर्थितं सर्वं दद्यात् । स्वेनापहृतं त्रैलोक्यराज्य-

मरिरपीन्द्रो यदि याचेत नियतं तस्मै दद्यात् । सुरनायको

याच्याञाया अपत्वेरेपे । सर्वलोकनायकस्तस्मिन्स्वाश्रिते याच्या-
ञा-
लाघवं याच्याञाभङ्गं चापनयन्स्वयं याचको बभूव । कोऽयं

नाथगुण: । नाथ इत्यात्मन: समाख्यां नाथनेन कर्तृव्युत्प
स्
-
त्त्
यापि पूर्णाणां करोतीव प्रभुः । 'लोकनाथः पुरा भूत्वा सुप्ग्री-

वं नाथमिच्छति' इति तस्य नाथनम्, नाथकामनं च स्व.
-
भाव: । यद्यपि ' त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्
'
इति तेनैव सनाथतरं जगत् । 'इन्द्रयाच्याञामपनयन्वामनो.
-
ऽर्थी त्वमासीः' इतीन्द्रस्य याचकत्व परिहाराय स्वयं भिक्षुको

भवतीति द्योत्यते । ' मध्ये वामनमासनिं विश्वेदेवा उपासते
'
इति कठश्रुतिर्वामनावतारविषय इति श्रीमन्मध्वमुनयः । त
-
थार्थवर्णने सर्वदेवोपास्यत्वं वामनस्योपपाद्येत । तस्य च ब्र
-
ह्म
रुद्रादिमान्यत्वं प्रसिद्धम् । ' शब्दादेव प्रमितः' इति

सूत्रेण परामृष्टः शब्दो वामनश्रुतिरूपशब्द: , नेशानपदघ
-
टित: ' ईशानो भूतभव्यस्य' इति लिङ्गप्रतिपादक शब्द:
 
६८
 
,