This page has been fully proofread once and needs a second look.

दशावतारस्तोत्र व्याख्या ।
 
६७
 

 
त्रिविक्रमो भवन्वामनः 'अणोरणीयान्महतो महीयान्' इति

श्रुतिं निदर्शयतीव । एकस्मिन्नवतारे एककाले उभयप्रदर्श
-
नम् । त्रिविक्रमस्य निरतिशयबृहद्रुरूपबृहत्त्वे न कोऽपि संश-

यीत ; 'भूः पादौ ' इति स्मृति: । भूरेकः पाद इति भग-

वांस्ततोऽपि बृहत्त्वं प्रदर्शयति । पादोऽस्य विश्वाभू-

तानि' इति श्रुतिरन्वर्थ्यत इव त्रिविक्रमेण । ' यः पार्थि-

वानि विममे रजांसि । योऽस्कभायदुत्तरं सधस्थं विचक्रमाण-

स्त्रेधोरुगाय: ' इति त्रयी गम्भीरनिर्ह्रादिभि: शब्दैर्डिण्डिम-

वदुदजूघुस्त्रिविक्रमयशः । एवमेवायं वेदमन्त्रोऽनुभूतः श्री-

भट्टार्यै: ' दैत्यौदार्येन्द्रयाच्याविहतिमपनयन्वामनोऽर्थी त्व-

मासीर्विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये ।

नाभीपद्मश्च मानश्चममिव भुवनप्राममन्यं सिसृक्षुस्तस्थौ रङ्गे-

न्द्र वृत्ते तव जयमुखरो डिण्डिमस्तत्र वेदः ॥ ' इति स्तवे ।

अद्भुतोऽयं श्लोक: प्रकृतावतारविषयः, तं च संग्रहेणानुभ-

वामः । प्रह्लादपितृसभायां दिविस्पृशत्कायो नृसिंहोऽभूत् ।

तद्वंश्यवैरोचनेः सदस्यतिकनीयान्वा मनोऽभूत् । त्रीणि जग-

न्त्यव्यादिति पूर्वावतारविषये प्रार्थना कृता । तद्द्वतारेण

गूढमेव गर्भत्वेनावस्थितं त्रिलोक्याम् । यथा रामावतारे

ऋषिभिः प्रार्थितम्, कृष्णावतारे तानेव गोपिका: