2023-02-27 22:44:21 by ambuda-bot
This page has not been fully proofread.
दशावतारस्तोत्र व्याख्या ।
६७
।
त्रिविक्रमो भवन्वामनः 'अणोरणीयान्महतो महीयान्' इति
श्रुतिं निदर्शयतीव । एकस्मिन्नवतारे एककाले उभयप्रदर्श
नम् । त्रिविक्रमस्य निरतिशयबृहद्रुपबृहत्त्वे न कोऽपि संश-
यीत ; 'भूः पादौ ' इति स्मृति: । भूरेकः पाद इति भग-
वांस्ततोऽपि बृहत्त्वं प्रदर्शयति । पादोऽस्य विश्वाभू-
तानि' इति श्रुतिरन्वर्थ्यत इव त्रिविक्रमेण । ' यः पार्थि-
वानि विममे रजांसि । योऽस्कभायदुत्तरं सधस्थं विचक्रमाण-
स्त्रेधोरुगाय: ' इति त्रयी गम्भीरनिदिभि: शब्दर्डिण्डिम-
वदुदजूघुपस्त्रिविक्रमयशः । एवमेवायं वेदमन्त्रोऽनुभूतः श्री-
भट्टायै: ' दैत्यौदार्येन्द्रयाच्याविहतिमपनयन्वामनोऽर्थी त्व-
मासीर्विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये ।
नाभीपद्मश्च मानश्चममिव भुवनप्राममन्यं सिसृक्षुस्तस्थौ रङ्गे-
न्द्र वृत्ते तव जयमुखरो डिण्डिमस्तव वेदः ॥ ' इति स्तवे ।
अद्भुतोऽयं श्लोक: प्रकृतावतारविषयः, तं च संग्रहेणानुभ-
वामः । प्रह्लादपितृसभायां दिविस्पृशत्कायो नृसिंहोऽभूत् ।
तद्वंश्यवैरोचनेः सदस्यतिकनीयान्वा मनोऽभूत् । त्रीणि जग-
न्त्यव्यादिति पूर्वावतारविषये प्रार्थना कृता । तद्द्वतारेण
गूढमेव गर्भत्वेनावस्थितं त्रिलोक्याम् । यथा रामावतारे
ऋषिभिः प्रार्थितम्, कृष्णावतारे तानेव गोपिका: