This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
वानेतद्गृहस्थूणागर्भे । महासुरगृहस्थूणासुप्रज इति श्रीनृसिंहः

संबोध्येत । उत्तरा सन्ध्या प्रवर्तते उत्तिष्ठ नरसिंह । गर्भ-

वासकालतारतम्यं बहुविधं वर्तते । कुत्रापि नैकक्षणमात्रा-

वच्छेदो गर्भवासस्य । प्रह्लादः प्रतिजज्ञे ' स सर्वत्र' इति ।
का

क्वा
सौ ? यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते इत्यनुपदं पितुः

प्रश्नः । अनुपदमेव 'दृश्यते' इत्यवतारदर्शनं प्रह्लादस्य ।

दृश्यत इति प्रह्लादवचनमपि भवेत् । 'विमूढा नानुपश्यन्ति

पश्यन्ति ज्ञानचक्षुषः ।' यद्यपि पित्रा न तदा दृष्टः, नापि

लोकेन, ज्ञानालोकेन पुत्रेण पूर्वमेव दृष्ट: स्यात् । प्रह्लादायें
र्थे
नृसिंहः, तेनैव प्रथमं दृश्येत । तद्दृष्टं तत्प्रदर्शितम नूद्यते

'सत्यं विधातुं निजभृत्यभाषितम्' इत्यवतारवर्णन श्लोकेन ।

ब्रह्मस्तम्बमसौद्विश्वंभरेत्युक्तं पूर्वश्लोके । अत्र ब्रह्मपितरं ब्रह्म

स्तम्भः प्रासूतेत्युच्यते । अत्र वा पूर्वश्लोके वा असुरनिरसनं

न प्रकाशितम् । साधुपरिवात्राणमात्रं वर्णितम् । शुभतननं

खलु प्रार्थितं प्रथम श्लोके !
 
aay
 
।।
 
व्रीडाविद्धवदान्यदानवयशोनासीरघाटीभट-
स्वै

स्त्रै
यक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।

यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिः

स्रोतोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥