This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
च्छैव नियामिका । असुरेच्छा वा यदृच्छाशब्देन ग्राह्या । इत-

रत्र प्रदर्शनं स नाचकाङ्क्ष । यदृच्छया सोऽत्रैव दिदृक्षां प्रकटी-

चकार । किमिदमघटितघटनम् । तिष्ठतु नरसिंहयोरेकत्र

सुश्लिष्टं घटनम् । तिष्ठतु महासुरेणाप्यघटनीयत्वेन निश्चि
-
तपरस्परविरुद्धानेकद्विकहानघटनम् । इयम चेतना स्थूणा चेत-

नानां चेतनमसूत । किमिदमाश्चर्यम् । 'परस्परविरोधे हि न

प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तिमात्रविरोधतः ॥'

इति न्याय: श्रद्दधेऽसुरेण वरवरणकाले । ब्रह्मणः सकलतर्का-

तीतत्वं विस्मृतं तेन । ' नैषा तर्केण मतिरापनेया' इत्याधुपनि-

षदर्था न गृहीतास्तेन विरोचनजातीयेनासुरेण ॥
 

 
वेधसां या काचित्सहसा महासुरगृहस्थूणा पिताम-

ह्यभूत् । अघटितघटना दृढीक्रियते । वेधसां पितामहानां

पितामह्यभूत्स्थूणा । वेधसां पितामहानां पितामही स्थूणा गर्
भं
धत्ते । सूते च सर्वलोकपितामहम् । महासुरशब्दः प्रयुज्यते

हिरण्यकशिपु विषये श्रीशुकेन । 'सुतं महाभागवतं महासुरः '

'अभ्यहनन्महासुरः' इति शुकमुखाच्च्युतः शब्द आचार्यैर्गृह्य-

ते । महासुरगृहे वेधसां पितुर्जन्म । यद्यपि स महासुरः, स्वेन

स्वीयेन वा भगवतो भागवतोत्तमस्य च गर्नेभे धारणमस्य

भाग्यमित्यपि व्यज्यते । यथा प्रह्लादोऽस्य गर्भे, तथा भग-
W