This page has been fully proofread once and needs a second look.

६४
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
तो न च्यवेत् । अमोघोऽयं गर्भोऽधुनापि तत्र तत्रास्ते ।

तत्र तत्र गर्भस्थितस्तत्व तत्वर तत्र भक्तमनोरथेन बहिः प्रादुर्भूय

वा त्रीणि जगन्ति रक्षतु । अखिलेषु भूतेषु व्याप्ति: सत्या-

प्यते श्रीनृसिंहेणेति श्रीशुकः । तच्च सर्वत्रान्तर्यामितया गर्ने
भे
नृसिंहत्वेनावस्थानेऽत्यन्तस्वरसं भवेन् । अकुण्ठ महिमाव्यात्स
-
र्
वाणि भूतानि । महिमा च व्याप्ति: । व्याप्तिश्च नृहरित्वेन ।

' व्याप्तिं च भूतेष्वखिलेषु चात्मन: ' इत्यस्य ग्रहणं महिमा-

शब्देनेत्यवधेयम् । कथं सिंहस्य सर्वव्याप्तत्वमिति चेत् -
-
उच्यते । अयं वैकुण्ठकण्ठीरवोऽकुण्ठः कण्ठीरव इति ।

श्रीमच्छङ्कराचार्यास्तदनुयायिनश्च नृसिंहोपासकाः ।
अत्र
पूर्वोदा हृतावतार श्लोके 'नरह्मिहरिणपति : ' इत्यधिकवर्णनं तद्वि-

षयेऽवतारान्तरेभ्यः । 'वैकुण्ठीये तु कण्ठे' इत्युक्तं तैर्भग-

वत्कण्ठविषये । 'श्रीमान्नृकण्ठीरवः' इति कल्पतरुकृतः । वैकु-

ण्ठकण्ठीरव इत्याचार्या: । यादृग्गम्भीरं रूपं तादृङ्नाम ॥
 
अव
 

 
यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकात् । यद्यपि

त्रैलोक्येऽपि नरसिंहो गर्भत्वेनावस्थितः, अखिलभूतमध्ये एकैव

स्थूणावन्ध्या प्रसुषुवे नृसिंहम् । इतरत्सर्वमन्तर्वदास्ते । या

काचित्स्थूणासूत किमित्येकस्यां प्रादुर्भावः, इतरत्रान्तरे.
 
-
वावस्थानमिति चेदुच्यते 'यादृच्छिकात्' इति । भगवदि-