This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या !
 
६३
 
हतो रिपुः । गतश्च प्रह्लादः । कथं तत्प्रादुर्भावेन त्रिजगदनु -
प्

ग्
रहस्तत्परित्राणं च प्रार्थ्यत इति चेत्, अकुण्ठमहिमायमि-

त्युच्यते । यदा प्रह्लाद : प्रतिजज्ञे पितृसंनिधौ 'हरिः सर्वत्र'

इति तत्सत्यपरीक्षक: पिता यत्र कुत्र वा स्वेष्टस्थले हरिं

प्रदर्शयेत्याज्ञापयेत् । तत्कातिङ्क्षितस्थलेऽप्रदर्शने भक्तवाग्वन्ध्या

भवेत् । 'शिर: कायाद्धरामि ते' इत्याक्रोशन्पिता तमर्भकं

हन्यात् । न हि तत्पूर्वं पित्रा साक्षात्स्वबलेन पुत्रहनने प्रवृ.
-
त्तम् । तदानीमेव तदिच्छा उदघुष्यत । तदिच्छा प्रकटनक्षण

एव भगवता प्रादुर्भजनीयम् । हरिं दिदृक्षति पिता सेतेन यो-
दु

द्धु
म् । हरेर्व्याप्तिं प्रतिजानीते पुत्र: । अवतरता च हरिणा

सिंहेन भाव्यम् । आदौ ' किं साधु मन्यते भवान्' इति

पृष्टवन्तं पितरम् ' तत्साधु मन्येऽसुरवर्य देहिनाम्.... वनं

गतो यद्धरिमाश्रयेत' इति प्रत्या सुतः । तत्रापि सिंहमेव

हरित्वेनासूसुचत् । वनं गतो वनराजं सिंहमेवाश्रयेत प्रहाह्ला-

दस्य हरिः सिंह एव स्यात् । यत् कुत्रापि हरिप्रदर्शनेच्छाप्र-

कटनसंभवेन सर्ववस्त्वन्तर्भगवता नृसिंहरूपेणावस्थितमिति

प्रदश्यते आचार्यै: 'स्तम्बैकवर्जमधुनापि करीश नूनं त्रैलोक्य-

मेव नियतं नरसिंहगर्भम्' इति । तत्र ' त्रैलोक्यम्' इति ।

अत्र त्रीणि जगन्तीति वर्णनसाम्यमवधेयम् । गर्भभूतोऽच्यु-
1