This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या !
 
६३
 
हतो रिपुः । गतश्च प्रह्लादः । कथं तत्प्रादुर्भावेन त्रिजगदनु -
प्रहस्तत्परित्राणं च प्रार्थ्यत इति चेत्, अकुण्ठमहिमायमि-
त्युच्यते । यदा प्रह्लाद : प्रतिजज्ञे पितृसंनिधौ 'हरिः सर्वत्र'
इति तत्सत्यपरीक्षक: पिता यत्र कुत्र वा स्वेष्टस्थले हरिं
प्रदर्शयेत्याज्ञापयेत् । तत्कातिस्थलेऽप्रदर्शने भक्तवाग्वन्ध्या
भवेत् । 'शिर: कायाद्धरामि ते' इत्याक्रोशन्पिता तमर्भकं
हन्यात् । न हि तत्पूर्वं पित्रा साक्षात्स्वबलेन पुत्रहनने प्रवृ.
त्तम् । तदानीमेव तदिच्छा उदघुष्यत । तदिच्छा प्रकटनक्षण
एव भगवता प्रादुर्भजनीयम् । हरिं दिदृक्षति पिता सेन यो-
दुम् । हरेर्व्याप्तिं प्रतिजानीते पुत्र: । अवतरता च हरिणा
सिंहेन भाव्यम् । आदौ ' किं साधु मन्यते भवान्' इति
पृष्टवन्तं पितरम् ' तत्साधु मन्येऽसुरवर्य देहिनाम्.... वनं
गतो यद्धरिमाश्रयेत' इति प्रत्याइ सुतः । तत्रापि सिंहमेव
हरित्वेनासूसुचत् । वनं गतो वनराजं सिंहमेवाश्रयेत प्रहा-
दस्य हरिः सिंह एव स्यात् । यत्व कुत्रापि हरिप्रदर्शनेच्छाप्र-
कटनसंभवेन सर्ववस्त्वन्तर्भगवता नृसिंहरूपेणावस्थितमिति
प्रदश्यते आचार्यै: 'स्तम्बैकवर्जमधुनापि करीश नूनं त्रैलोक्य-
मेव नियतं नरसिंहगर्भम्' इति । तत्र ' त्रैलोक्यम्' इति ।
अत्र त्रीणि जगन्तीति वर्णनसाम्यमवधेयम् । गर्भभूतोऽच्यु-
1