This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मान्नकण्ठीरवः । प्रह्लादस्य गिर: प्रमाणनविधौ दिव्याकृति
स्तम्भतो निर्यातः प्रकटी भवेत्स हृदयाम्भोजे ममाखण्डितम् ॥
इत्यद्भुतोऽनुभव: श्रीनृसिंहविषये कल्पतरुकाराणां श्रीमदम.
लानन्दयतीनाम् । एतच्छ्लोकभाववर्णने नाबावतरामश्विरमज्ज
 
नभयात् ॥
 
· ६२
 
'नारसिंह-
अव्यात्रीणि जगन्ति । पाणिजैरव्यादित्यप्यन्वयः
प्रह्लादह्लादनानि' इति सततं प्रकृष्टह्लादमग्नमत एव प्रह्लाद
इति ख्यातं श्रादमद्भुतमपूर्व हादयितुमतिसुन्दरात्यन्तसुघटि.
तनृसिंहतनुः परिजगृहे । तामेवागौणीं नृसिंहननुं सर्वदास्म
लोचनचमत्काराय अस्मत्पुरतोऽवस्थाप्यास्मान्मन्दह्लादान्ह्लाद-
यतु । अद्भुतसुन्दरवपुःप्रदर्शनेनावनं प्रार्थ्यते
वपुः' इत्युक्त्वा तस्य भीषणत्वादि निवार्य सौन्दर्य प्रख्याप
यितुमनुपदमेव ' श्रीमान्' इति पठ्यते सहस्रनामसु । तद्व-
पुर्दर्शनानन्तरं प्रत्येकं लोकोत्तरसुन्दरं नरं वा सिंहं वा द्रष्टु
र्जुगुप्सा जायेतेत्युक्तं श्रीमद्भट्टारकैस्तद्भाष्ये । तदेव वर्णितं
श्रीरङ्गराजस्तवे 'नृहरिदशयो: पश्यन्नौत्पत्तिकं घटनाद्भुतं
बरमुत हरिं दृष्ट्वैकैकं समृद्विजते जनः' इति ॥
 
अक्कुण्ठमहिमा वैकुण्ठकण्ठीरवः । क्षणिकोऽयमवतारः ।
 
"
 
1