This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
जानां निवेशनं क्षणिकमेव । न तेभ्यो भवदधिकारः स्थिरं

दास्यते । तेषां भवत्प्रतिभूत्वं भवत्प्रत्यादेशत्वं न क्षणादधिकं

स्यात् । यूयमेव मम स्थिरायुधाधिकारभाजः । एवं वदं-
स्तान

स्तानि
पाणिजै: ' तिष्ठन्तु भवन्तः, मानुयान्तु माम्'

इति संज्ञां करोतीव तानि क्षणं निषेधन् भक्तवागसत्यताभि-

या । पाणिजै: प्रत्यादिशति तान्यनुगमनोत्सुकानि ' क्षणम्'

इति कथयन् । 'पाणिजान्' प्रदर्श्य तान्याश्वासयति, न

भेतव्यं भवद्भिरहं निरायुधो यास्यामि प्रबलशत्रुं योद्धुमिति ।

सन्त्येतेऽद्भुताः पाणिजा इति प्रहरणप्रामशब्देन द्योत्यत

इव । पाणिजशब्देन नखविशेषणतया पाणेरपि ग्रहणेन तेन

निषेधनमभयप्रदानं च व्यज्यते । यथा वराहस्य घोणा

बलम्, तथा सिंहस्य नखानि बलम् । तदूद्बलं भूय: प्रदर्श्यते

सर्वैरपि कविभिः । समुग्धकान्तास्तनभङ्गभङ्गुरैरुरोविदारं

प्रतिचस्करे नखैः ।' 'वक्ष एष निरदारयन्नखैः' इति

माघानुभवः । 'नखक्षुण्णारातिक्षतजपटलै: ' इति भाट्टानु-

भवः । ' नखरशृङ्गदम्भोलिभि: ' 'दम्भोलिश्रेणिदीप्यत्खरन-

खरमुखक्षुण्णवैदैतेयवक्षोनिष्ठ्यूतासृक्स्रवन्तीभरितदशदिशादर्
शि-
तापूर्वसन्ध्यः' इत्याचार्यानुभवोऽन्यत्र । ' माद्यन्मोहमहेभ-

कुम्भदलनप्रोद्भूत सन्मौक्तिकथोद्योतालंकृतचित्सुखाद्वयवपुः श्री-