2023-02-27 22:44:19 by ambuda-bot
This page has not been fully proofread.
दशावतारस्तोत्रव्याख्या ।
जानां निवेशनं क्षणिकमेव । न तेभ्यो भवदधिकारः स्थिरं
दास्यते । तेषां भवत्प्रतिभूत्वं भवत्प्रत्यादेशत्वं न क्षणादधिकं
स्यात् । यूयमेव मम स्थिरायुधाधिकारभाजः । एवं वदं-
स्तान पाणिजै: ' तिष्ठन्तु भवन्तः, मानुयान्तु माम्'
इति संज्ञां करोतीव तानि क्षणं निषेधन् भक्तवागसत्यताभि-
या । पाणिजै: प्रत्यादिशति तान्यनुगमनोत्सुकानि ' क्षणम्'
इति कथयन् । 'पाणिजान्' प्रदर्श्य तान्याश्वासयति, न
भेतव्यं भवद्भिरहं निरायुधो यास्यामि प्रबलशत्रुं योद्धुमिति ।
सन्त्येतेऽद्भुताः पाणिजा इति प्रहरणप्रामशब्देन द्योत्यत
इव । पाणिजशब्देन नखविशेषणतया पाणेरपि ग्रहणेन तेन
निषेधनमभयप्रदानं च व्यज्यते । यथा वराहस्य घोणा
बलम्, तथा सिंहस्य नखानि बलम् । तदूलं भूय: प्रदर्श्यते
सर्वैरपि कविभिः । समुग्धकान्तास्तनभङ्गभङ्गुरैरुरोविदारं
प्रतिचस्करे नखैः ।' वक्ष एष निरदारयन्नखैः' इति
माघानुभवः । 'नखक्षुण्णारातिक्षतजपटलै: ' इति भाट्टानु-
भवः । ' नखरशृङ्गदम्भोलिभि: ' 'दम्भोलिश्रेणिदीप्यत्खरन-
खरमुखक्षुण्णवैतेयवक्षोनिष्ठ्यूतासृक्स्रवन्तीभरितदशदिशादर्श
तापूर्वसन्ध्यः' इत्याचार्यानुभवोऽन्यत्र । ' माद्यन्मोहमहेभ-
कुम्भदलनप्रोद्भूत सन्मौक्तिकथोतालंकृतचित्सुखाद्वयवपुः श्री-
८