This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
5
 
मात्रं कुर्याद्वीथीषु । यदि यदृच्छया कारुणिकैर्जनै: शिक्ये

किमप्यनं प्रक्षिप्येत तच्चरेद्भक्षयेत् । चरणमात्रलब्धं चरेदिति

श्रुत्यर्थ: । न केवलं सुखसाधनानि परित्यक्तानि दृष्टविधया
के

क्ले
शभूताः सर्वेऽपि पारमैकान्त्यधर्मास्तीत्व्रमविच्छिन्नमनुष्ठी-

यन्ते । सर्वसुखपरित्यागी बहुडेक्लेशपरिगृहव्हीत्यानन्दसागरमन्ग्नः

सततहृष्टो दृश्यते । अत्रावधूतयदुसंवादः स्मर्तव्यः । 'अ-

धूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । यदुर्निरीक्ष्य पप्रच्छ'

' त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्' 'ब्रूहि '

इति । अवधूतस्यानन्द भरितत्वदर्शनेन विस्मितः संराट् स्वेन

स्वप्नेऽप्यलब्धस्य तदनुभूयमानस्यानन्दस्य कारणं पप्रच्छ ।

केन रसेन सर्वसङ्गपरित्यागिनोऽस्य तपस्विनो हृदयं व्याप्तम्,

येनासावानन्दभरितो वर्तते । किमयं चिन्तयति । 'मच्चि-

ताः' इति भगवदेकचित्तोऽयम् । 'मद्गतप्राणाः' इति

भगवञ्च्चिन्तयैव प्राणिति । तत्स्मृत्यपहारे गतप्राण: स्यात् ।

रसभूमानं सर्वान्तरमानन्दमयमेवाय मावृत्तचक्षुषा पश्यति,

तमेव शृणोति, विजानाति; नान्यत्पश्यति, शृणोति, वि-

जानाति । अन्वयव्यतिरेकाभ्यां कार्यकारणभावो व्यवस्थाप्येत ।

अन्वयव्यतिरेकाभ्यामर्थापत्त्या चास्य रसान्तरविरक्तस्यान-
ब्

न्
दपीनत्वं ब्रह्मसंस्पर्शहेतुकमिति निश्चीयते । एवंरीत्या सहे-
3