This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

 
याद्वराहस्तथा विश्वंभरां बिभर्त्ययं ब्रह्मवराहः । यथा मुस्ता-

या निष्कम्पा निरपाया स्थितिः स्यात्तथा अस्या इति व्य-

ज्यते । यथा मुस्ता स्तम्बादितृणप्ररोहस्य मूलं भवेत्तथेयं

विश्वंभरा जगत्कन्दभूतेत्यपि व्यज्यते । वराहदंष्ट्रायां मुस्ते-

वातिसूक्ष्मा दृश्यते विश्वंभरा भगवद्दंष्ट्रायामिति च व्यज्यते ।

'
यथा वनान्नि: सरतो दता घृता मतङ्गजेन्द्रस्य सपत्र-

पद्मिनी ।' इति गजेन्द्रदंष्ट्रागतपद्मिनीव भूपद्मं शुशुभे इति

श्रीशुकानुभवः । 'दंष्ट्रानुषक्तां धरणीं दधानो जम्बालरेखा-

मिव केलिलग्नाम् ।' इत्याचार्याणामनुभवः सङ्कल्पसूर्योदये ।

पङ्करेखावदत्यन्तसूक्ष्मा दृश्यते भूः । रेखा निरतिशयसूक्ष्मा ।

सपनेङ्के पल्वले विहरतो मुस्ताक्षतिं च कुर्वतो वराहस्य दं-

ष्ट्रयां पङ्करेखालगनं सुसंभ वि । अत्र मुस्तात्वेनानुभवः ।

तत्क्षति : सहजा वराहाणाम् । तच्च वर्णितमुदाहृतशाकुन्तल
-
श्लोके खुरदन्घ्नप्रमाणे समुद्रपलबल्वले विहरतानेन वराहेण लब्धा

जगत्कन्दभूता देवी तद्दंष्ट्रायां विहारलग्ना मुत्म्तेव भासते ।

' हृदि सुररिपोर्दष्टोदंष्ट्रोत्खाते क्षिपन्प्रलयार्णवं क्षितिकुचतटीमर्च-

न्दैत्यास्रकुङ्कुमचर्चया स्फुटधुतसटा भ्राम्यद्ब्रह्मास्तवोन्मुख
बृ-
म्हितः शरणमसि मे रङ्गिंस्त्वमूलकोलतनुर्भवन् ॥' इति

श्रीमद्भट्टारकैर्ब्रह्मत्वप्रदर्शनं कोलवपुषः ॥
 
&
 
५८