This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
भूतजीवराशयो विच्छिद्येरन् । भगवता दता तामुद्धृत्य तत्र

तस्या निष्कम्पां स्थितिं संपाद्यानेककोटि सुखप्रसवसंभवो नि-
वर्

र्वर्त्
यते !
 
।।
 
असौ । पुरोवतिष्ठत इव देवी भूराचार्याणामनुभवे ।

यथा ' सैषा देवी' इति श्रीस्तुत्यन्ते । ध्रुवमध्यक्षितोऽवतार-

वृत्तान्त: सर्वोऽपि स्तोत्रकाले । भूम्येकदेशमध्यस्थैरस्माभिः

कथं तस्याः पुरोवर्तित्वेन निर्देश्यत्वस्य संभवः । ईदृशाव-

तारदशापरोक्षणकाल एव तत्संभवः ॥
 

 
भगवती विश्वंभरा । विश्वं भरतीयम् स्वगर्भे । इमां

बिभर्ति भगवद्दंष्ट्राङ्कुरकोटिः । तं बिभर्ति तस्य स्वो महिमा ।

अथ वा न सोऽपि । भगवर्तीतीं भगवान्बिभर्ति । 'विश्वंभरा

भगवती भवतीमसूत ।' इत्युत्तररामचरिते । तन्नातिसुन्द-

रम् ।
' सर्वं बिभ्रती तव माता त्वामध्यसूत' इति सीतां

प्रति वचनं कथं तस्याः स्तुतौ पर्यवस्येत् । यथा सर्वान्प्रा-

णिनो गर्ने बभार तान् सुषुवे, तथा त्वामध्यसूतेति खलु

तद्वचन भङ्गीपर्यवसानम् । 'भगवती विश्वंभरा' इति

पदयोः सम्यग्विनियोजनं क्रियते आचार्यैरित्यवधेयम् ॥
 
रम् ।
 

 
मुस्तेव । यथा मुस्तां लीलयानायासेन दन्ताग्रे बिभु
 
भृ-