This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
हिरण्यकेशहिरण्याक्षयोरायोधनम् । हिरण्यकेश इति भगव-
न्तं निर्दिशन् श्रीशुको हिरण्याक्षस्य 'आ प्रणखात्सर्व एव
सुवर्णो हिरण्यकेश: ' सदृशोऽधिकञ्च शत्रुश्चेति चारु व्य-
जयति । अक्षिमात्रं हिरण्यं तस्यासुरस्य । प्रलयोर्मिघोषो
नियतः सागरे तयोस्तदन्तर्युद्धक्षोभसंरम्भवमये । तद्बोषादपि
गरीयानस्य घोणारवः प्रथमगुरोर्वेदमयस्यादिवराहस्य घो-
णारवस्य गुरुत्वं न्याय्यमिति गुरुशब्देन व्यज्यते । 'विद्या-
गुरवे नमो नमः' इति श्रीशुकः । मत्स्यावतारेण लब्धस्य
कूर्मेण योगेनाशैथिल्येनाभ्यस्तस्य वेदस्यदानीं वराहेणोचैत्र-
झाण्डव्यापिभिर्घोणारखैरुद्घोषणम, तेन च ब्रह्माण्डपवित्रीकर.
णमित्यवधेयम् । असुरापहारेणापवित्रीकृताया भुवो वेदमन्त्रा-
नुपाठै: शुद्धिरूपसंस्कार: संपाद्यते । यथा मत्स्यस्य वीक्षणं
सततधात्रनादिकमान्दोलनं च यथा च कूर्मस्य निद्रानिश्वा-
सादिकमङ्गसंहरणादिरूपव्यापारेण प्रत्याहाररूपयोगसाम्यं चा
वर्ण्यन्त, तथा वराहस्य स्वभावभूतघोणारवा वर्ण्यन्ते । यथा-
वतीर्णेन ब्रह्मणा ब्रह्मस्वभावो न जाते, तथावतीर्णतत्तद्योनि-
स्वभावोऽपि न त्यज्यते । घोणैव मुख्यं बलं वराहस्य ।
' स्थूलनासिकापूर्वसुन्दराम्' इति माघे । वनमृग इत्युपह-
सितो भगवान् 'सत्यं वयं भो वनगोचरा युष्मद्विधान्मृगया-
-
 
4
 
-